________________
----
---
------
-
-
-
-
-
-
-----
७. नैयायिकाभिमतस्यानुमानस्य निरसनम् । ६५ तद्भावे तस्याभावः तत्पूर्वकत्वात् । नहि कारणं विना कार्य लोके भवद् दृष्टम् , प्रत्यक्ष च कारणं गीयते तदभावात् कथमनुमानकुप्तिः, कृप्ती वा कार्याऽकस्मिकत्वप्रसङ्गः । प्रत्यक्षाभावमङ्गीकृत्य उक्तम् - " अविनाभावसम्बन्धस्य ग्रहीतुमशक्यत्वात्।"
इतोपि अविनाभावसम्बन्धग्रहणानुपपत्तिः - किं सामान्ययोः सम्बन्ध वधारणम् , आहो स्वलक्षणयोः, सामान्यखलक्षणयोर्वा ? तद्यदि सामान्ययोः सम्बन्धावधारणम् ; तद्युक्तम् ; सामान्यानुपपत्तेः । तदनुपपत्तिश्च प्रागेवोपपादिता । नापि सामान्यखलक्षणयोः, सामान्यासंभवादेव। 10
नापि स्खलक्षणयोः; दहनधूमव्यक्तीनामानन्त्यात्, अ. भिनानेकानुगामिनिमित्ताऽसंभवाच्च । सद्भावेऽपि आनन्त्यस्थाऽनतिवृत्तेः, अतिवृत्तौ वा भावाभावप्रसङ्गः, तत्प्रसक्ती च वद् इदानीं कस्य सम्बन्धावधारणम् ?
देशकालस्वभावविप्रकर्षाच न व्यक्तीनां सम्बन्धावधार-15 णाय अलं प्रत्यक्षम् । न च सम्बन्धिग्रहणमन्तरेण सम्बन्धबुद्धेरुपपत्तिः तदधिकरणत्वात् सम्बन्ध-तडयोः । न च सम्बन्धग्रहणसमये सर्वे सम्बन्धिनोऽवभान्ति , अप्रतिभासनात् । . न च अप्रतीयमानस्य प्रतीयमानत्वं कल्पयितुं न्याय्यम् , अति. प्रसङ्गात् । अन्यथा हि रासने विज्ञाने रसे प्रतीयमाने रूप-20 मपि कल्प्यं स्यात् । ___ अथ अविनाभावसम्बन्धग्रहणकालोपलक्षितकतिपयव्यक्तीनां सम्बन्धावधारणम्, न सर्वासामिति चेत् ; यद्येवं तासामेव गमकत्वं नान्यासाम् । नहि अन्यस्य सम्बन्धे अन्यस्य गमकत्वमस्ति, अतिप्रसङ्गात् । न जातु देवदत्तनयनघट-25 सम्बन्धे जाते जलादी ज्ञानमुत्पद्यते नियतदेशकालस्वभावा
९ त,