________________
तत्त्वोपप्लवसिंहे
पत्तिः । नापि प्रत्यक्षेण गुणावधारणम् , स्वयमनभ्युपगमात् । तदुक्तम् -
" गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥" उत्तदनवगमे च न भोग्येन भोक्तुरनुमानम् । ततश्च नात्मा, न गुणत्रयम् ।
अथ अव्यतिरिक्तम् : तत्किम् - तात्विकम् , अतात्त्विकम् वा ? यदि तात्त्विकम् । तदा कार्याणामपरिसंख्येयत्वे गुणानामप्यपरिसंख्येयता। ततश्च 'त्रयो गुणाः' इति न वक्तव्यम् । 10अथ गुणानां नित्वम् । तदा कार्यस्यापि त्रित्वं प्राप्नोति, आनन्त्यं हीयते । तथा , कार्यस्य प्रत्यक्षत्वे गुणानामपि प्रत्यक्षत्वम् । किंविषयं प्रधानानुमानम् ? गुणत्रयं प्रधानम्, तच उपलब्धम् अलम् अन्वयशक्तिपरिमाणवैश्वरूप्योपकार्योपकारकादिसाधनेन । अथ नोपलभ्यते प्रधानम् : तद्व्यतिरिक्तं 15कार्यमपि नोपलभ्येत, तदभावान्न पुरुषसिद्धिरुपपद्यते ।
अथ अतात्विकम् ; तदा गुणत्रयस्यापि अतात्विकत्वम्। तभावात् न चित्सिद्धौ प्रमाणमस्ति । तसिद्धौ परलोकिनोऽभावात् परलोकाभावः । तदेवं प्रत्यक्षं नोपपद्यते ॥ छ ॥
[७. नैयायिकाभिमतस्यानुमानस्य निरसनम् । ] 20 अथ इदानीमनुमानं विचार्यते - किं पुनरनुमानम् ? "तत्पूर्वकमनुमानम् " [न्यायसू० १.१.५ ] कथम् ? कथ्यते - रसवतीप्रदेशे नयनादिव्यापारेण दहनधूमयोः सम्बन्धावधारणं क्रियते, तेन च संस्कारः, तदुत्तरकालं द्वितीयलिङ्गदर्शनम् । तदनन्तरं व्याप्तिस्मरणम् , व्याप्तिस्मरणानन्तरं परामर्श25ज्ञानमनुमानं लिङ्गसचिवम् ।