________________
६. सांख्यसंमतस्य प्रत्यक्षलक्षणस्य निरसनम् । स्याताम् । ततश्च - 'इदानीमुपलभे पूर्व नोप(पा)लभे' इति व्यवहारविरहः स्यात् । तथा; 'पूर्वमुप(पा)लभे इदानीं नोपलभे इत्येतदपि न प्राप्नोति । ____ अथ अवयवोपचये सति उपलम्भः; तस्य सर्वदा भावात् सर्वदोपलम्भप्रसङ्गः। अथ स्खलक्षणपुष्टौ सत्यामुपलम्भः; 5 तस्याः सर्वदा सत्त्वात् सततोपलम्भप्रसङ्गः । अथ संस्थानोस्कर्षे सत्युपलम्भः। तस्यापि सर्वदा विद्यमानत्वात् सततोपलब्धिः स्यात् । तस्माद् येन येन निमित्तेन उपलम्भपरिकल्पना, तस्य तस्य सर्वदा भावात् सततोपलम्भप्रसङ्गः । अथ देशकालकारकापबन्धादनुपलम्भः; तदा तस्यापबन्धस्य सर्वदा10 भावाद् अनुपलम्भाऽनुपरमः स्यात् ।
तथा , इन्द्रियाणामपि करणरूपता नोपलभ्यते फलवैकल्यात्। ननु अस्ति विज्ञानं फलम् ; न , तस्य सर्वदा विद्यमानत्वात् । सर्वदा विद्यमानयोः हेतुफलभावो नोपपद्यते, यथा गुणानां परस्परमात्मभेदानां वा । नहि आत्मा आत्मा-15 न्तरस्य हेतुर्भवति तत्फलं वा, तथा इहापि अनाद्यन्ता सत्ता न कलं हेतुर्वा उच्यते ।।
किंच, भूजलादि अनेक कार्यम् - तत्किं गुणत्रयाद् व्यतिरिक्तम्, अव्यतिरिक्तं वा ? तद्यदि व्यतिरिक्तम् ; तत्कि . तात्त्विकम् , अतात्त्विकं वा? तद्यदि तात्त्विकम् ; न तर्हि 20 गुणत्रयोपादानपूर्वकम् , ततो भिन्नत्वाद् आत्मस्वरूपवत् । न च गुणत्रयेण सह अन्यतमोऽपि सम्बन्ध उपपद्यते तद्भिन्नकार्यस्य । न मात्रामात्रिकसम्बन्धः, नापि सहचरसहचरित]भावः, नापि निमित्त-नि(नै)मित्तिकभावः, उपकार्योपकारकभावो वा।
__ अथ अतात्त्विकम् ; कथं तेन गुणत्रयं प्रतीयते, गुणत्रयेण25 सह सम्बन्धानुपपत्तेः ? नच सदसतोः सम्बन्ध उपपद्यते आत्मखरविषाणयोरिव । तदभावात् नानुमानाद् गुणत्रयप्रति