________________
६२
तत्त्वोपप्लवसिंहे
तचेदभिन्नम् , कथं वृत्तीनां भेदः ? भेदाभ्युपगमे इन्द्रियैकत्वं हीयते । इन्द्रियाव्यतिरेकित्वं न वक्तव्यम् । इन्द्रियाव्यतिरेकित्वेऽभ्युपगम्यमाने नीललोहितघटादीनां सर्वदा उपलम्भः स्यात्, इन्द्रियावस्थाने तव्यतिरिक्ताया वृत्तेः अवस्थान5संभवात् , तत्संभवे च घटाद्यनुपलम्भानुपपत्तिः ।
अथ वृत्तिसद्भावेपि अनुपलब्धिः; न कदाचिदुपलब्धिः स्यात्, नहि भवतां पक्षे किंचिदपूर्व जायते पूर्व वा निरुद्वयते । ततश्च सर्वस्याऽस्तित्वे उपलब्ध्यनुपलब्धी किंकृते ? सदोपलब्धिरनुपलब्धिर्वा । नहायेवं वादिनो द्वितीया गति10रस्ति ।
किंच, शब्दादय उपलभ्यन्ते किम् - अनुपलभ्यस्वभावा उपलभ्यन्ते , आहोस्विदुपलभ्यस्वभावा(वा.) ? तद्यदि अनुपलभ्यस्वभावा उपलभ्यन्ते ; तदा उपलब्धिः कथम् ? यदि अनुपलभ्यस्वभावाः, कथम् उपलभ्येरन् ? अन्यथा आत्मादेरप्यु15पलब्धिः स्यात् ।
अथ उपलभ्यस्वभावा उपलभ्यन्ते ; अनुपलब्धिः कथम् ? किं तेनैवाकारेण, आहोस्विद् आकारान्तरेण ? यदि तेनैव आकारेण अनुपलब्धिः; आत्मादेरपि अनुपलब्धिर्न प्राप्नोति, उपलब्धौ वा बीजान्तरं वचनीयम् । अथ आकारान्तरेण नोप20लभ्यन्ते ; तथापि उपलभ्यमाना-ऽनुपलभ्यमानयोः नैकत्वम् ,
शब्दात्माकारयोरिव , नहि उपलभ्यस्वभावाच्छन्दादनुपलभ्यस्वभाव आत्माऽव्यतिरिक्तो दृष्टः ।
अथ तस्यैवाऽभिव्यक्तस्योपलब्धिः; तत्स्वरूपवदभिव्यक्तः सर्वदानव(०दाव)स्थानात् सततोपलब्धिप्रसङ्गः । अथ तिरो25धाने सति अनुपलब्धिः तदा तत्स्वरूपतादात्म्यात् सततानुपलम्भप्रसङ्गः, उभयोऽवस्थाने सममुपलम्भाऽनुपलम्भौ