________________
६. सांख्यसंमतस्य प्रत्यक्षलक्षणस्य निरसनम् । ६१ सम्, बुद्धिस्वरूपस्यानेककालान्तरावस्थानायोगात् अर्थापत्तेनिर्विषयत्वम् । केनापि बलवता प्रेरितो बुद्धिमन्तरेण वा तदुपल्लवादा घटोपादानपरित्यागाय घटते तेन संदिग्धाऽर्थापत्तिः। नच सम्बन्धग्रहणमन्तरेण नियतायां वुद्धौ प्रतिपत्तिरुपपद्यते। अर्थापत्तितस्तु तद्नुपपत्तौ इन्द्रियकल्पनापि दुर्घटा। 5
अथ अवबोधान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते; तस्यापि वुद्धया सह सम्बन्धो नास्ति, कथमवबोधयति ? अबबोधे चावगते प्रत्यक्षावगतैव बुद्धिः नावबोधगम्या , अवबोधबुद्धि-विज्ञानशब्दानां पर्यायत्वाद् अवबुध्यते ज्ञायत इत्येकोऽर्थः ॥ छ ।
10 [६. सांख्यसंमतस्य प्रत्यक्षलक्षणस्य निरसनम् ।] तथा “ श्रोत्रादिवृत्तिरविकल्पिका " एतदपि प्रत्युक्तम् : श्रोत्रादिका(क)रणानां शब्दादिविषयाकारतया विपरिणामो वृत्तिशब्देनाभिधीयते । सा चानेकप्रकारा भवति - सम्यरज्ञानरूपा विपर्ययज्ञान-संदेहरूपा च । तदुक्तम्- 15
“तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रः।" इत्यादि । .. तद्यदि श्रोत्रादिवृत्तेः प्रत्यक्षत्वम् : तदा विपर्ययादिवृत्तेरपि प्रत्यक्षत्वं प्रामोति । अथ अबाधितपदोपादानं क्रियते; तत् सूत्रे न श्रूयते । भवतु वा तस्य कल्पना, तथापि अव्यभिचारित्वं ज्ञातुं न शक्यते । तच्च नैयायिकप्रत्यक्षलक्षणाधि-20 कारे प्रपश्चितम् । यदि च अव्यभिचारिपदेन विपर्ययरूपा वृत्तिरपोद्यते तत् तदात्मतया व्यवस्थिता सम्यग्रूपापि वृत्तिरपोदिता भवति । ततश्च संग्राहया न लभ्यते वृत्तिः ।
अथ सम्यग्रूपा वृत्तिरिह संग्राहया; तदाऽपोहया न लभ्यते, वृत्तीनां स्वरूपैकताभ्युपगमात् । भेदानभ्युपगमे च25 अभ्युपेतहानम् । नहि भवतां पक्षे इन्द्रियाद भिद्यन्ते वृत्तयः ।