________________
पवाघनवत् ।
६०
तत्त्वोपप्लवसिंहे कथमविद्यमानता ? अवबोध्यमानत्वेनैव विद्यमानता प्रत्यक्षप्रमाणावबोषितार्थवदिति । नाप्यवोधनमवबोध्यमन्तरेण उपजायते प्रत्यक्षावबोधनवत् ।
अपि च चोदनावचनजनितविज्ञानस्य मिथ्यात्वमुपपद्यते, 5अविद्यमानविषयत्वात् केशोण्डुकज्ञानवत् । केशोण्डुकविज्ञानस्यापि प्रतीयमानोपकारकार्थाभावे मिथ्यात्वम् , तदिहापि प्रतीयमानोपकारकार्थों [ना]स्त्येव, कथं न मिथ्यात्वम् ? तदन्वये वा कर्तव्यार्थविषयत्वं प्रतिहीयेत चोदनावचसः ।
किंच, चोदनाजनितं विज्ञानं कर्तव्यतार्थविषयं वा , तद्10भावविषयम्, निर्विषयं वा ? तद्यदि कर्त्तव्यतार्थविषयम्; तदा तस्य वर्तमानतैव प्रतीत्युत्कलितत्वाद् विद्यमानतोयादिवत् । १ तोयादेरप्रतीयमानत्वं स्वसत्ताधूमादग्नौ सति जनकस्वादिना निमित्तेन } एतचेद् विद्यते ; कथमविद्यमानता ? अथ तभावविषयम् ; तस्यापि स्वेन रूपेण विद्यमानत्वात् न कर्त्त15व्यता । अथ निर्विषयम् : न तर्हि चोदना कर्तव्यावबोधिका
अपि तु निर्विषया इत्येवं वक्तव्यम् । एवंस्थिते यथा प्रत्यक्षं विद्यमानोपलम्भकं तथा अन्यान्यपि प्रमाणानि ।
बुद्धिजन्म प्रत्यक्षम् , नच वुद्धयवगमे प्रमाणमस्ति । प्रत्यक्षावसेया सा न भवति, स्वयमनभ्युपगमात् । अनुमानगम्यापि 20न भवति, तथा प्रतिबद्धलिङ्गानवगतः । ___ अथ अर्थापत्त्या प्रतीयते; किम् - घटार्थान्यथानुपपत्त्या, आहो तदुपादानपरित्यागान्यथानुपपत्त्या, घटावबोधान्यथानुपपत्त्या वा ? तद्यदि घटार्थान्यथानुपपत्त्या ; तयुक्तम् , न वुद्धिकार्यो घटः, अपि तु बुद्धिरिह तत्कार्या । अथ घटोपा25दानपरित्यागान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते; तयु
१. कोष्ठकगतः पाठोऽप्रस्तुतो भाति ।