________________
५. मीमांसकाभिमतस्य प्रत्यक्षस्य निरासः । ५९ तम् ' इति ब्रूमः, अव्यभिचारितयाऽनवगतः। नापि सत्संप्रयोगजत्वं विदितम् , ततश्च प्रत्यक्षानधिगतिः, तदनवगतो चानुवादानुपपत्तिः।
इतोप्यनुवादानुपपत्तिः प्रयोजनाभावात् । नहि प्रयोजनं विना अनुवादः प्रवर्तते, अनूद्य कचित् किंचिद्विधीयते प्रति- 5 षिध्यते वा।
नन्वत्रापि धर्म प्रति निमित्तत्वं प्रतिषिध्यते । तदुक्तम्" धर्म प्रत्यनिमित्तं प्रत्यक्षं विद्यमानोपलम्भनत्वात् सम्प्रयोगजत्वाच । " तत्र किम् अन्यपदार्थावभासोत्पन्नं प्रत्यक्षं धर्म प्रति निमित्तत्वेन प्रतिषिध्यते, किं वा धर्मावभासोत्पन्नम् ,10 अनुत्पन्नं वा ? तद्यदि अन्यपदार्थावभासोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते; तदाऽविप्रतिपत्त्या संबोधयितव्या जडमतयः । ___ अथ धर्म्य(मा)वबोधकोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते; तदा विरोधेन प्रत्यवस्थेयो भवति - धर्मावबोधकोत्पन्नं प्रत्यक्षम् , न च धर्मनिमित्तम् इति व्याहतमपदिश्यते, अन्यथा चोदना-15 वचनजनितविज्ञानस्यापि धर्मावबोधकत्वेन उत्पन्नस्यातन्निमित्तत्वं स्यात् । अथानुत्पन्नस्य धर्मावबोधकत्वं नास्ति; केनात्र प्रतिपद्यते - यन्नोत्पन्नं तद् धर्मावबोधकम् ? नापि कमलदलावबोधकं स्वयमसत्त्वात् ।
यदप्युक्तम् - 'सत्संप्रयोगजत्वात्' इति , तदप्ययुक्तम् :20 सत्संप्रयोगजत्वं यथा न भवति तथा प्रागेवोक्तम् । ___ यदप्यन्यदुक्तम् - "विद्यमानोपलम्भनत्वात् किल प्रत्यक्ष विज्ञानं विद्यमानमेवबोधयति"; ययेवं न केवलं प्रत्यक्षम् अपि तु सर्वप्रमाणोत्पादित विज्ञानं विद्यमानावबोधकम् । ____ अथ चोदनाजनितं विज्ञानम् अविद्यमानकर्त्तव्यार्थाव-25 बोधकम् । यद्यविद्यमानम् ; कथमवबोध्यते ? अथ अवबोध्यते;