________________
५८
तत्त्वोपप्लवसिंहे
काराननुकारित्वे च ज्ञानाकारताविरहः स्यात् , अनुकरोति च विज्ञानरूपताम् , तेन कथं नानुभवात्मकम् ? तदुपपत्तौ च प्राप्ता अनुभवपरम्परा इत्यतः स्मरणानुपपत्तिः, तदनुपपत्तौ च अनुमानज्ञानस्याप्यनुपपत्तिः, ततश्च सर्वव्यवहारविलोपप्रसङ्गश्च 5एवं (०प्रसङ्गः । एवं च) न सन्तानसिद्धिः, नापि सविकल्पकनिर्विकल्पकज्ञानद्वैराश्यमस्ति , नापि व्यभिचाराव्यभिचार- . दैविध्यमुपपद्यते सौगते मते ॥२॥
[५. मीमांसकाभिमतस्य प्रत्यक्षस्य निरास:।] तथा, “सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् 10प्रत्यक्षम् ” [ जैमि० १.१.४ ]; तदपि प्रत्युक्तम् । कथम् ? एत. त्सूत्रं कदाचित् लक्षणपरम् , कदाचिच्च कारकसंख्याप्रतिपादनपरम्, कदाचिचानुवादपरम् । तद्यदि लक्षणपरम् । तदावबोधस्याव्यभिचारित्वं नावगन्तुं पार्यते - नादुष्टकारणजन्यत्वेन , नापि प्रवृत्तिसामर्थ्येन , नापि बाधारहितत्वेन , नान्यथा वा - 15सर्व पूर्वोदितमनुस्मृत्य वक्तव्यम् ।
नापि इन्द्रियार्थसम्प्रयोगजत्वं विज्ञानस्यावबोधस्य चार्वाग्भागविदावगम्यते, तदतीन्द्रियत्वेन तदायत्तताऽनधिगतेः । नापि इन्द्रियजन्यत्वमवगन्तुं पार्यते, इन्द्रियाणामतीन्द्रियत्वादेव। अथ अवबोधान्यथानुपपत्त्या सन्निकर्षपरि20कल्पना क्रियते; अवबोधस्य अन्यथानुपपत्तिर्न भवति काऽनुमा ?
- . अथ कारकसंख्यार्थम् ; किं तेन परिसंख्यातेन प्रयोजनम् ? आलोकादीनामपि कारकत्वात् तान्यपि परिसंख्येयानि
भवन्ति । 25 अथ अनुवादपरता; प्रसिद्धस्यानुवादो नाऽप्रसिद्धस्य । नच अध्यक्षं क्वचिद्विदितम् । ननु लोके विदितम् ; 'न विदि.