________________
។
१. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । लभ्यस्वभावक संजातं किन्न कल्प्यते ? किंच, उत्पादविनाशयोरभेदे सति कार्यकारणयोः समं विनाशः स्यात् ।
यदप्यन्यदुक्तम् - " मातुरुदरनिःक्रम(निष्क्रमणानन्तरं यदायं ज्ञानं तज्ज्ञानान्तरपूर्वकं ज्ञानत्वात् द्वितीयज्ञानवत् ।" न, असिद्धत्वात् दृष्टान्तस्य, द्वितीयादिज्ञानस्यापि यथा 5 ज्ञानपूर्वकत्वं नावगाहयितुं पार्यते तथा प्रागेव आवेदितम् । किंच, यदि(दि)ज्ञानत्वात् ज्ञानपूर्वकत्वानुमानम् , न किलाऽवबोधात्मककारणमन्तरेण बोधात्मक कार्यमुपपद्यते । एतच्चावद्यम्- अबोधात्मकादपि नीलालोकलोचनादिकारणादुपजायते- तदा गर्भादौ यदाचं विज्ञानं तद् मतसंघातादेव भवि-10 ष्यति न ज्ञानान्तरं परिकल्पनीयम् । यस्यानन्तरं यद् भवति तत् तस्य कारणं नापरिदृष्टसामथ्र्यम्, विज्ञानाभावे विज्ञानजन्याकारता निवृत्ता न तु ज्ञानाकारता, यथा इन्द्रियव्यापारमन्तरेणोपजायमाने मनोविज्ञाने इन्द्रियजन्याकारता निवर्तते न तु ज्ञानाकारता।
15 यदि च सदृशात् सदृशस्योत्पत्तिनियम्यते तदा धूमेन दहनानुमानं न प्रामोति, दहनस्य धूमसारूप्यमन्तरेण उपादानकारणस्वायोगात्। अथ रूपरूपता सारूप्यमुभयोरिति चेत् ; तदिहापि स्वलक्षणरूपता सारूप्यं भूतविज्ञानयोः, अलं परलोकविज्ञानकल्पनया । अथ विज्ञानरूपता भूतानां न वि-20 द्यते तेन तेषामुपादानकारणत्वं नास्ति विज्ञानं प्रतीतिश्चे(प्रतीति चे )त् : इहापि धूमरूपता नास्ति दहनस्य , नोपादानकारणत्वम् , तद्भावे न दहनानुमानम् ।
तथा, अनुभवज्ञानादनुभवज्ञानस्यैव निष्पत्तिरभ्युपेया उपादानकारणानुकारित्वेन कार्यस्य निष्पत्त्यभ्युपगमात् । न च25 एकदेशानुकारित्वमस्ति तदीजस्याऽविचित्रत्वात् । अनुभवा८ त.