________________
५६
तस्योपप्लवसिंहे
स्वरूपं विज्ञानस्य निरवयवत्वेन, ततश्च यथा पूर्वसहोत्पन्नविज्ञानस्य हेतुर्न भवति, एवम् अपरविज्ञानस्यापि हेतुर्न भवति- तत्स्वरूपव्यतिरिक्तव्यापारातिशयस्थानुपलब्धेः । .
अथ पूर्वकालभाव एवातिशयः, तेन तस्य हेतुत्वमुप5पाद्यते : यवेवं यथा देवदत्तज्ञानपूर्वकालभावि देवदत्तज्ञानकारणं तथा सर्व पुरुषज्ञानानां देवदत्तज्ञानकालोत्पन्नानां देवदत्तज्ञानं प्रति हेतुत्वं प्रसक्तम् ; तत्प्रसक्तौ अनेकद्वीपदेशान्तरितपुरुषानुस्यू(नुभूतार्थानुस्मरणं स्यात् । तथा , स्वजनभुजङ्गमादौऽ(मादावन)नुभूतेप्यर्थेऽनुस्मरणं स्यात् । तथा, तथागतावदात10ज्ञानजन्यत्वे देवदत्तज्ञानानामवदातता स्यात् । ततश्च सर्वे सर्वज्ञाः स्युः । अथ नैव अवदातता देवदत्तादिज्ञानानाम् , तथागतावदातज्ञानोपादानजन्यत्वेऽपि देवदत्तादिज्ञानेनापि जनितत्वात् ; तजन्यत्वेनैव तथागतज्ञानस्याप्यवदातरूपता न प्राप्नोति । ततश्वासावपि अवीतरागः स्यादसर्वज्ञश्च । 15 इतश्च सन्तानानुपपत्तिः, विज्ञानयोः सहोत्पादे हेतुफलभावानुपपत्तेः । यदैव कारणज्ञानं विनश्यति तदैव कार्यज्ञानं जायत इति वः सिद्धान्तः । कारणज्ञानस्य च विनाशः तदुत्पाद एव । ततश्च कारणज्ञानविनाशकाले कार्यज्ञानं भवति । किमुक्तं भवति ? कारणज्ञानोत्पादकाल एव भवति । ततश्च 20सहोत्पन्नयोः हेतुफलभावानुपपत्तिः एककालोद्गतयोः गोविषाणयोरिव । कारणज्ञानस्य चानुपप(नुत्पन्नस्योत्पत्तिवद् अनुत्पन्नस्य विनाशप्रसङ्गः। ततश्च क्षणमपि नोपलभ्येत , उपलब्धी वा सततोपलम्भप्रसङ्गः, तदात्मभूतविनाशस्य उपलम्भविघाताकर्तृत्वात् । विघातकर्तृत्वे वा एकक्षणोपलम्भस्यापि 25अनुपपत्तिप्रसङ्गः । अथ एकक्षणोपलभ्यस्वभावकं संजातं तेन [न] सततोपलब्धिः अनुपलब्धिर्वा; यद्येवं द्वादशाष्टक्षणोप