________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा। ५५ त्वेन जनकत्वाऽयोगात्। अथ कार्यैकखभावम् ; तथापि न सदास्मकम् , अर्थक्रियाऽकरणे वस्तुत्वविरहात् । अथ उभयात्मकम् ; एकमनेकात्मकं भवति ? केन त्वं विप्रलम्भितः ? नहि एकस्य अनेकनामकरणे नानातोपपद्यते । न चानेकनामका(क)रणमुपपद्यते , निमित्तस्याविचित्रत्वात् । एवं विज्ञानस्याऽसंभवे सति 5 सन्तानानुपपत्तिः, अभ्रान्तभ्रान्तदैतस्याऽनुपपत्तिश्च ।
[$ १६. प्रसङ्गात् बौद्धाभिमतस्य सन्तानस्य असिद्धत्वप्रदर्शनम् । ]
इतोऽपि सन्तानस्याऽसिडिः, विज्ञानस्य एकत्वात् । तदेकत्वं च आकारान्तरस्यानुपपत्तेः, उपपत्तौ वा ज्ञानाकारविरहप्रसङ्गः । तत्पसक्तौ च सन्तानाऽनुपपत्तिः।
10 इतोऽपि विज्ञानसन्तानानुपपत्ति:- विज्ञानम् असद्धर्मात् सदात्मतया निवर्त्तते , स्वरूपान्तरात्तु कथं व्यावर्त्तते ? किं सदास्मतया , आहो आकारान्तरेण ? तद्यदि सदात्मतया व्यावर्तते । तदा रूपादेः असदाकारता प्राप्नोति , वाजिविषाणयोरिव । अथ आकारान्तरेण निवर्त्तते; तदा ज्ञानस्य असत्व-15 भावता प्रामोति , तुरगविषाणवदिति। ___ अथ विज्ञानाकारतया निवर्त्तते रूपादिभ्यो विज्ञानम् ; सा विज्ञानाकारता सत्स्वभावा, असत्वभावा [वा] ? तद्यदि सत्वभावा; तदा ज्ञानाकारतया निवर्त्तत इति किमुक्तं भवति? सदात्मतया निवर्तते, विज्ञान सदाकारयोरव्यतिरे-20 कात् । ततश्च रूपादेरसदाकारता प्राप्नोति तुरगविषाणवदिति पूर्वोदितमेव दूषणमापद्यते । अथ असत्स्वभावा; तदा खरविषाणवद् विज्ञानरूपतां परित्यजति , त्यागे विज्ञानसन्तानानुपपत्तिः, तदनुपपत्तौ चैत्यवन्दनादिक्रियाऽनर्थक्यम् ।
इतोऽपि विज्ञानसन्तानानुपपत्तिः, तदुत्पादकविज्ञानस्य25 पूर्वापरसहोत्पन्नविज्ञानं प्रति स्वरूपाविशेषात् - यदेव पूर्वसहोत्पन्नविज्ञानापेक्षया स्वरूपं तदेव अपरविज्ञानापेक्षयापि