________________
५४
तत्त्वोपप्लवसिंह ज्ञानरूपं कार्यं जनयन्ति; तदा विज्ञानस्य अभेदरूपता निवर्तते नियतखभावकारकजन्यवाद् रूपशब्दादिवत् ।।
अथ विविधादपि कारणाद् अखण्डितरूपं कार्य भवति; एवं च कार्यभेदात् भिन्नकारणानुमानं निवर्तते - एकस्वभा5वादपि विज्ञानाद् अनेकं नयनालोकादिकार्यमुत्पद्यते, अनेकस्मादपि एकं भवति । एवं च सति नियतकार्यदर्शने नियतकारणानुमानं निवर्तते। ____ अथ एकस्मादेव कारणादेकं कार्यं भवति न बहूनां संकलितानाम् एकफलोत्पादकत्वम् । ततश्च नियतकार्यदर्शने नि10यतकारणानुमानं केन निवार्यते ? तदेतदसमीचीनम् ; यद्येकं कारणम् एकं कार्य जनयति तदाऽभ्युपगमविरोधः - " चतुWश्चित्तचैत्ता भवन्ति, बोधादोधरूपता विषयाकारता" इत्यादि।
एकमेव जनयति किम् - समानजातीयत्वेन , आहो 15तदाकारत्वेन, किं वा पूर्वापरकालभावित्वेन ? तद्यदि समानजातीयत्वेन जनकत्वम् । तदा समानकालीनं पश्चादुत्पन्नमपि जनयेत् । अथ तदाकारानुकारित्वेन जनकम् । तत्राप्येतदेव दूषणम् । अथ पूर्वापरकालभावित्वेन जनकम् : न त_दं वक्तव्यम् ' एकमेव जनकम् ', चक्षुरूपालोकमनस्काराणां पूर्व20कालभावित्वाऽविशेषात् । एवं च अनेकोपादानोत्पाद्यत्वेन आकारकदम्बकस्वरूपं विज्ञानं प्रसक्तम् । रूपाद्याकारपरिहारे वा विज्ञानाकारस्याप्यनुपपत्तिः । तदनुपपत्तो नैरात्म्यप्रसङ्गः।
किंच, ज्ञानं कायकस्वभावम् , कारणैकस्वभावम् , उभयस्वभावं वा ? तद्यदि कारणैकस्वभावम् ; तदा कार्यरूपता न 25संभवति, तदभावे न वस्तुत्वम् , संस्कृतानां वस्तुत्वाभ्युपगमात् । नापि कारणरूपता उपपद्यते; अनाधीयमानाऽतिशय