________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा। ५३ पपत्तिः। अथ तद्विपरीतः। तदा ज्ञानमात्रता स्यात् । ज्ञानरूपता च सर्वज्ञानावधारणा( ज्ञानसाधारणा)-प्रतिकर्मव्यवस्थानुपपत्तिः । अथ अतात्त्विकः; तदा ज्ञानस्यापि अतात्विकत्वं प्राभोति । यदि च विज्ञानतादात्म्येन आकारोत्पत्तिभवति : विज्ञानं सर्वकारकनिष्पायेन साधारणम्-प्रतिकर्म-5 व्यवस्थानुपपत्तिः । एवं च सति यदुक्तम् - " अर्थेन घटयत्येना नहि मुक्त्वार्थरूपताम् ।
तस्मादर्थाधिगतेः प्रमाणं मेयरूपता ॥" तन्मुग्धविलसितं सौगतानाम् । ___ तदेवं वृत्तिविकल्पादिदूषणं सामान्यादौ न संभवति 10 यथा एक रूपम् अनेककार्योत्पादकत्वेन साधारणम् , तथा एक सामान्यम् अनेकाधारसाधारणम् ।
अथ एकरूपं नानेकं कार्य जनयति अपि तु एकमेव ; तत्रापि किं रूपमेव केवलमुत्पादयति , उत ज्ञानमेव ? तद्यदि रूपमेव केवलमुत्पादयति : तदा रूपस्याऽग्रहणं प्राप्नोति विज्ञा-15 नाऽजननात् ।
अथ ज्ञानमेव केवलमुत्पादयति तथापि मानसं प्रत्यक्षं न प्रामोति । स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन यज्जन्यते तत् मानसं प्रत्यक्षम् । न च स्वविषयानन्तरभावी विषयोऽस्ति रूपान्तराजनकात् । तस्मादेकमेव रूपं विज्ञान-नीला-20 दिकार्यसाधारणं प्रतिपत्तव्यम् ।
चक्षुरूपालोकादीनि कारणानि विज्ञानमुत्पादयन्ति , तानि किम् - एकस्वभावयुक्तानि , आहो नियतखभावयुक्तानि ? तद्यदि एकस्वभावतया उत्पादयति(न्ति); तदा कारकैकत्वं प्रा. मोति अभिन्नखभावयोगित्वात् । अथ नियतखभावयुक्तानि25 १. तुलय-न्यायवि. १९