________________
तत्वोपप्लवसिंहे
करोति; तदयुक्तम् ; कृतस्य करणायोगात् । अथाऽनुत्पन्नं करोति; असतः कः कारकार्थः ? तथा, स्वकारणमपि न जनयति इतरेतराश्रयत्वदोषप्रसङ्गात् । अतः तदेव कारकं तदेव च अकारकमिति , तथा सामान्यमपि जनकमजनकं च । 5 न चार्थक्रियाकर्तृत्वाभावेऽसत्त्वं सिद्धयति, यथा बहे: अयोगोलकाङ्गारावस्थायां धूमोत्पादकत्वाभावेऽपि न निवर्तते वह्निरूपता, खहेतोरेव तथाभूतस्योत्पत्तेर्वह्निखभावस्य धूमजनकात्मकस्य च, तथा अन्यदपि कार्य स्वहेतुनोत्पादितं यत् वस्तुखभावं कार्याऽजनकात्मकं च, तथा सामान्य. 10मपि वस्तुभूतं न च कार्यमुत्पादयति ।
ननु यदि कार्य नोत्पादयति , तदस्तीति कथं वेत्सि ? तदुपलब्ध्या । ननु तदनुत्पाद्या कथं तहीतिर्भवति ? स्वहेतुसामर्थ्य नियमितायाः तदुहीत्यात्मतयोत्पत्तेः। नच तदु. त्पाद्यत्वेन तहीतित्वम् ; चक्षुरादेरपि संवेद्यत्वप्रसङ्गात् । 15न च विषयाकारयोगित्वेन तहीतित्व(त्वं) विज्ञानात्मना व्यतिरेकेण विषयाकारसमावेशायोगात् । योऽसौ आकारो विषयार्पितः स किं ज्ञानाकाराद् भिन्नः, अभिन्नो वा ? यदि भिन्नः; स तात्त्विकः, अतात्त्विको वा ? यदि तात्त्विकः; तद्गतिः कथम् ? किं स्वसंवेद्यत्वेन , आहो जनकत्वाकारार्पक20त्वेन ? तद्यदि स्वसंवेद्यत्वेन ; तयुक्तम् ; अज्ञानात्मतया स्व. संवेद्यत्वायोगात् । अथ जनकत्वा-ऽऽकारार्पकत्वेन; तदा प्राप्ता आकारपरम्परा। अतात्त्विकः; तद्गतिर्नोपपद्यते; स्वसंवेद्यत्वजनकत्वव्यतिरेकात् ।
अथ अन्यतिरिक्तः; स तात्त्विकः, अतात्त्विको वा ? 25यदि तात्त्विकः; स जडात्मा, तद्विपरीतो वा ? यदि जडात्मा; न तर्हि चिता सह तादात्म्यम् - चिचितोः तादात्म्यानु