________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
[ $ १४. एकत्र दृष्टो भेदो हि-इत्यादेः कारिकायाः प्रतिवदनम् । ]
यदप्यन्यदुक्तम्
"E
एकत्र दृष्टो भेदो हि कचिन्नान्यत्र दृश्यते । न तस्माद् भिन्नमस्त्यन्यत् सामान्यं बुद्ध्यभेदतः ॥ [ प्रमाणवा. ३.१२६ ] 5 इत्येतदप्ययुक्तम् । एकत्र दृष्टे (ष्ट )स्य भेदस्य अन्यत्र दर्शनमस्त्येव, यथा घटवस्त्रादेः एकावयवोपरिदृष्टस्य अवयवान्तरलग्नस्य उपलम्भात्, तथा सामान्यमपि भिन्नमस्ति, अनुगताकारस्य वुद्धिभेदेनाध्यवसीयमानत्वात् ।
५१
[ $ १५. नित्यस्य क्रमेतराभ्यामित्यादेः प्रतिसमाधानम् । ] 10 यदप्यन्यदुक्तम् " नित्यस्य क्रमेतराभ्यामर्थक्रियाकरणसामर्थ्य नास्तीत्यसत् सामान्यम् ; तदेतदयुक्तम् उभयथाप्यर्थक्रियासम्पादनमुपपद्यते युगपत् क्रमेण च । ननु क्रमकर्तृत्वमभिन्नस्य नोपपद्यते, कार्यस्यैककालीनता प्राप्नोति ; एतच्चाऽसमीचीनम् यथा भवतां पक्षे एकं नीलखल- 15 : क्षणम् अनेकाकारकार्य नियतदेशसम्बन्धि जनयति नयना - लोकमनस्कारादिरूपम्, न च कार्याणाम् एकाकारता एकदेशसम्बन्धिता वा विद्यते एकखभावसमुद्भवत्वेऽपि तथा इहापि एवंभूतं तत्सामान्यं यत् क्रमेतराभ्यां कार्योत्पादात्मकम् ।
ननु यदि क्रमेण कार्य करोति तदा तदेव जनकम्, तदेव 20 चाऽजनकम् ; सत्यम्, तदेवं जनकं तदेव चाऽजनकम् । ननु जनकाऽजनकयोर्भेदप्रसङ्गः न प्रसङगोस्ति, यथा त्वदीये पक्षे एकं नीलवलक्षणं स्वकार्यापेक्षया जनकम्, स्वकारणात्मापेक्षया तु अजनकम्, न तस्य स्वरूपभेदोऽस्ति ।
अथ स्वकारणमात्मानं च जनयति तदयुक्तम् ; तद् आ-25 त्मानं कुर्वद् उत्पन्नं वा कुर्यात्, अनुत्पन्नं वा ? तद्यदि उत्पन्नं