________________
तत्त्वोपप्लयसिंहे प्राप्तम् , कथं नोपलभ्यते ? अथ नोपलभ्यते ; न तर्हि उपलब्धिलक्षणप्राप्तम् । उपलब्धिलक्षणप्राप्तिरिह प्रत्ययान्तरसाकल्य(ल्यं) स्वभावविशेषस्स(श्च) । एतच्चेद् विद्यते; कथमनुपलब्धिः? . एवंभूतस्याप्यनुपलम्भे परिकल्प्यमाने सर्ववस्तूनामनुपलम्भप्रसङ्गः । उपलब्धौ वा अन्यत् कारणमन्वेष्टव्यम् । अथ प्रत्ययान्तरसाकल्यमानं विवक्षितम् , न तत्स्वभावविशेषः; यद्येवम् अदृश्यस्यैव अनुपलब्धिः न दृश्यानुपलब्धिरस्ति । यदि च अन्यकारकसाकल्यम् उपलब्धिलक्षणप्रातिरभिधीयते; तदापि उपलब्ध्या भवितव्यम् नानुपलब्ध्या । इतरकारक10साकल्यं हि उपलम्भजननसामर्थ्यम् । तचेद् विद्यते; कथमनुपलब्धिः ? तस्मादनुपलब्धिलक्षणप्राप्तस्यैव अनुपलब्धेः(ब्धिः), नोपलब्धिलक्षणप्राप्तस्य । [६ १३. क्षीरोदकवद्विवेकेनाग्रहणान्नास्ति सामान्यमित्युक्तेर्खण्डनम् । ]
यदप्युवाच- "क्षीरोदकवद् विवेकेनाऽग्रहणात् नास्ति 15सामान्यम् :" तद्प्ययुक्तम् ; विवेको हि आकारान्यत्वं व्यक्तीनामननुगमरूपता, सामान्यं तु अनुगताकारम् , अनयो: सारूप्यम् । तैः सह सारूप्यमस्य इति विविक्ताकारावगमदर्शनात् तथा, क्षीरोदकयोरपि विविक्तमेव ग्रहणम् । तत्र क्षीरोदकयोः एकभाजननिक्षेपे सति किम् - केवलं क्षीरं प्रतिभाति, 20आहो उदकम् , उभयं वा ? तद्यदि क्षीरमेव प्रतिभाति; कथं तद् उदकाकारान्न विविक्तं भवति ?
अथ उदकं केवलं प्रतिभाति; तदपि कथं क्षीरान्न विविक्तं भवति?
__ अथ उभयं प्रतिभाति । तदा उभयोरितरेतराकारविवि25क्तयोर्ग्रहणं तादात्म्यव्यतिरेकात् ।