________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । ४२ नन्तरं घट-सामान्यस्य ग्रहणम् , किं वा घट-सामान्यस्याग्रहणमेव विवक्षितम् ? तद्यदि अवयवाधिकरणग्रहणमेव घट-सामान्यस्य ग्रहणं विवक्षितम् ; तदा नानेनाव्यतिरेका अन्यतरासत्त्वं वा प्रतिपाद्यते , यथा नीलतदियोः एकोपलम्भेऽपि नान्यतराभावः, अव्यतिरेको वा, तथा नीललोहितयोः 5 एकोपलम्भेऽपि नान्यतराभावः, अव्यतिरेको वा ।
अथ अवयवाधिकरणग्रहणानन्तरं घट-सामान्यग्रहणं विकक्षितम् । तदा नानेनाव्यतिरेक: साध्यते अन्यतरासत्त्वं वा, यथा रूपग्रहणानन्तरं रससंवेदनं न तयोरेकतां गमयति अन्यतरासत्त्वं वा।
10 'अथ अग्रहणमेव विवक्षितं घट-सामान्यस्य ; तदा तदग्रहेऽग्रहात्' इत्येतन्न वक्तव्यम् , ' अग्रहात्' इत्येतावदस्तु । नहि अन्यस्थाऽग्रहे तदनुपलम्भसिद्धिः, तत्वभावविनिवृत्तिनिबन्धनत्वात् तदनुपलम्भस्य ।
न चायं व्यतिरेकार्थो लभ्यते, 'तद्ग्रहेऽग्रहात् ' इत्यस्य15 हेतोः घटसामान्यस्याग्रहणमेच, अपि तु अवयवाधिकरणग्रहणानन्तरं घट-सामान्यस्य ग्रहणं लभ्यते ततश्च विपरीतसाधनाद विरुद्धो भवति । [$ १२. एकपिण्डग्रहणकाले उपलब्धिलक्षणप्राप्तस्येत्यादेः समीक्ष्य प्रतिवचनम् ।]
यदप्यभ्यधायि- “एकपिण्डग्रहणकाले उपलब्धिलक्षण-20 प्राप्तस्य अनुपलब्धर्नास्ति सामान्यम् ।”क एक्माह- नोपलब्धं सामान्यम् । अपि तु उपलन्धमेव । कथं ज्ञायते ? द्वितीयादिपिण्डदर्शने सति पूर्वे पिण्डे स्मृतिदर्शनात् 'अनेन सदृशोऽसौ' एवमनुस्मरति । अथवा एकपिण्डग्रहणकाले तद् उपलब्धिलक्षणप्राप्तं न भवति तेन नोपलभ्यते । उपलब्धिलक्षणप्राप्ति-25 रिह अनेकसहकारिपिण्डोपनिपातः । यदि चोपलब्धिलक्षण
७ त.