________________
तत्त्वोपप्लवसिंहे
गते धर्मिणि हेतोरुत्थानमस्ति । न चाश्रयवैकल्य(ये) गमकत्वम् । अथ अवगतस्य ; तदा तेनैव भिन्नाकारावगमेन अव्यतिरेकप्रत्यायकसाधनं बाध्यते ।
अथ तदवयवाधिकरणस्य पक्षीकरणम् ; तत्रापि किम् - 5स्वस्मात् स्वरूपाद् अव्यतिरेकः साध्यते, [ आहो परस्मात् ] इति ? [ यदि स्वस्मात् स्वरूपाव्यतिरेकः साध्यते;] सिहसाध्यतया सम्बोधयितव्याः। अथ परस्माद्व्यतिरेकः साध्यते; स परात्मा प्रतिपन्नः, अप्रतिपन्नो वा ? यदि प्रतिपन्नः; स किम् - भिन्नाकारतया अवगतः, अभिन्नाकारतया वा? तद्यदि 10भिन्नाकारतयोपलब्धः; तदाऽनेनैव भिन्नाकारावगमेन अभेदप्रत्यायकं साधनं बाध्यते । अथ अभिन्नाकारतयाऽवगतः; न तर्हि परात्मा , इदानी खस्मात् स्वरूपाव्यतिरेकः साध्यत इति सिद्धसाध्यतया संबोधयितव्याः। अथ अनवगतः; न तर्हि एकत्वं रथतुरगविषाणयोरिव । 15 अथ अभावः साध्यः तत्रापि कस्य पक्षीकरणम्- किं घटसामान्यस्य , आहो तवयवाधिकरणस्य ? तद्यदि घटसामान्यस्य पक्षीकरणम् ; तत्किम् - अवगतस्य , अनवगतस्य वा? यद्यवगतस्य ; तदा तेनैव सद्भावावगमेन अभावहेतोबर्बाध्यमानत्वात् अगमकत्वम् । अथ नावगतम् ; कथं तस्य 20पक्षीकरणम् खयमनवगतस्य पक्षीकरणायोगात् ?
अथ अवयवाधिकरणस्य पक्षीकरणम् , घटसामान्य नास्तीति प्रतिज्ञा; तद्ग्रहेऽग्रहात् इत्यस्य हेतोः तदभावेन सह सम्बन्धो नास्ति । तादात्म्यतदुत्पत्तिसम्बन्धाभावे सति कथं गमकत्वम् ? 25 तदग्रहेऽग्रहादित्यस्य कोऽर्थः ? किम् – अवयवाधिकरणग्रहणमेव घटसामान्यस्य ग्रहणम् , आहो अवयवाधिकरणग्रहणा
१. कोष्ठकगतः पाठः ताडपत्रे नास्ति । अनुसन्धानबलात् अस्माभिरत्र प्रक्षिप्तः ।