________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । ४७ पेयते नैयायिकैः , तदभावेऽपि सद्भावोऽभ्युपगम्यते तेषां भवद्भिः। अथ तानि प्रतिभान्ति वृत्त्यभावेऽपि, तेन तेषामभ्युपगमः क्रियते; यद्येवं घट-संख्या-सामान्यादेरपि स्वरूपं प्रतिभाति अभिन्नानुगतात्मतया । न चानुभूयमानस्य निहवो युक्तः सर्वापलापप्रसङ्गात् । अनुपलब्धौ वा सैव समर्था , अलं वृत्ति- 5 विकल्पदोषेण । यद्युपलभ्यते; तदा वृत्तिविकल्पदोषो न वक्तव्यः । अथ नोपलभ्यते; तथापि न वक्तव्यः। - [$१०. देशभेदेनाऽग्रहणात् इत्यादेः समालोच्य प्रतिविधानम् । ]
यदप्युक्तम्- "देशभेदेनाऽग्रहणात् घट-सामान्यानुपपत्ति"; तदप्ययुक्तम् ; न देशभेदेन वस्तूनां भेदोऽपितु10 आकारभेदेन , अभिन्नानुगतात्मतया तयोः स्वरूपमनुभूयते । न देशभेदाग्रहणेन खावयवाधिकरणेन सह तयोस्तादात्म्यं सिहयति असत्त्वं वा । यद्याकारभेदेन ग्रहणम् ; तदा देशभेदेनाग्रहणस्य अप्रयोजकत्वम् , आकारभेदग्रहणेन स्वरूपान्यत्वस्य प्रबोधितत्वात् । अथ आकारान्यत्वेन नावबोधोऽस्ति; स15 एवास्तु, असद्व्यवहारसमर्थत्वात् , किं देशभेदाग्रहणेन ? वहेतोरेव नियतदेशकालनियमितस्योत्पत्तेर्न देशान्तरादौ ग्रहणम् , अन्यथा रूपादेरसत्त्वं स्यात् इतरदेशलग्नस्याऽग्रहणात् । [११. नास्ति घट-सामान्यम् , तदग्रहे प्रहात् इत्यस्य विभञ्जनम् । ]
यदप्युक्तम्- “ नास्ति घट-सामान्यम् , तद्ग्रहेऽग्रहात् "20 किमनेन क्रियते । किम् अवयवाधिकरणाऽव्यतिरेकप्रतिपादनम् , आहो असत्वप्रतिपादनम् ? तद्यदि अव्यतिरेकप्रतिपादनं क्रियते: कस्यात्र पक्षीकरणम् ? किं घटसामान्यस्य, आहो तदवयवाधिकरणस्य ?
तद्यदि घटसामान्यस्य पक्षीकरणम् तत्किम् - अवगतस्य ,25 अनवगतस्य वा ? तद्यदि अनवगतस्य ; तयुक्तम् ; नयनव१ अप्रयोजनकत्वम्- परिव० ।