________________
तत्त्वोपप्लवसिंहे
देशेन रूपोत्पाद्यत्वेन स्थितम् , सर्वात्मना वा उत्पाद्यत्वेन पर्यवसितम् ? तद्यदि एकदेशेन स्थितम् । तद्युक्तम् ; अखण्डस्य एकदेशविरहात् । अथ सर्वात्मना रूपोत्पाद्यत्वेन पर्यवसितम्: तदा विज्ञानोत्पाद्यं न प्राप्नोति यथा एककारक5समूहोत्पाद्यत्वेन पर्यवसितस्य कारकसंघातस्य संघातान्तरोत्पाद्यत्वं न दृष्टम् , ततश्च विज्ञानसंघातानुपपत्तिः।
तथा रूपमपि ज्ञानम् एकदेशेन कुर्यात्, सर्वात्मना करणपर्यवसितं वा ? तद्यदि एकदेशेन करोति तयुक्तम् । अखण्डस्य एकदेशाऽयोगात् । अथ सर्वात्मना करोति; तदा रूपं 10सर्वात्मना विज्ञानकरणे पर्यवसितं न रूपान्तरकरणे प्रवर्तते , यथा एककारकसामग्री एककार्योत्पादनपर्यवसिता कार्यान्तरसवित्री न भवति, तथा रूपमपि रूपान्तरोत्पादकं न भवति, ततश्च रूपान्तरस्य आकस्मिकत्वम् कथं तदा(कत्वम् , तदाऽऽ)कस्मिकत्वे कार्यानुमानं विलुप्यते सौगतानाम् । 15 अथ अनेककार्योत्पादकत्वेन पर्यवसितं रूपस्वरूपम् । तदा घट-संख्या सामान्यादेरपि अनेकाधिकरणाश्रितात्मक रूपम् , वृत्तिविकल्पदोषानुपपत्तिः ।
[९. जाति प्रतिवदितुं बौद्धैर्दत्तानां दूषणानामेकैकशो निरासः।]
इतोऽपि वृत्तिविकल्पदोषामुपपत्तिः - वृत्तिविकल्पदोषेण 20वृत्तरेव निराकरणं कृतम्, न घट-संख्या-सामान्यादेः, ततोऽन्यत्वात् । नहि अन्यस्याऽभावे अन्यस्याभावोऽस्ति असम्बन्धात् । नहि अनुदकः कमण्डलुः इत्युक्ते कमण्डलोरभाव: प्रतीयते, कपालानां तदुदकस्य चा, अपि तु कमण्डलुना साकम् उदकस्य विश्लेषमानं प्रतीयते । 25 ननु नैयायिकैः वृत्तिमह घर-सामान्यमभ्युपेयते, तदभावे कथं तस्य संस्थितिः ? यद्येवं रूपरसविज्ञानानामपि वृत्तिरभ्यु