________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
भवति ? ज्ञानाकारोऽत्र निराक्रियते। ततश्च अज्ञानात्मकं प्रत्यक्षं प्रसक्तं सौगतानाम् ।
अपि च यथा रूपेण उपादानभूतेन जन्यते रूपम् तथा ज्ञानमपि उपादानभूतेनैव जन्यते । य एव तस्य रूपोत्पादने आत्मा स एव तस्य ज्ञानोत्पादनेऽपि । नहि तस्य ज्ञानोत्पा- 5 दने आत्मान्यत्वम् । ___अथ निमित्तभूतेन ज्ञानमुत्पाद्यते , उपादानभूतेन रूपमिति चेत् ; तत्कथमेकस्य अनेकाकारयोगितोपपद्यते ? न च संज्ञान्यत्वे मेयान्यत्वमुपपद्यते, रूपवद् विज्ञानस्यापि रूपरूपता प्राप्नोति । तत्प्राप्तौ च न परलोकी आत्मा, तदभावान्न पर-10 लोकः । इदमेवं चेतसि समारोप्याह भगवान् बृहस्पतिः" परलोकिनोऽभावात् परलोकाभावः ।"
अथ रूपोपादानजन्यत्वेपि ज्ञानरूपतैव; रूपस्यापि ज्ञानरूपता प्राप्ता रूपोपादानजन्यत्वात् ज्ञानरूपवत् । अथ ज्ञानं ज्ञानेन उपादानभूतेन जन्य]ते; रूपमपि तेनैव जन्यते, नहि 15 तस्य रूपोपादाने आत्माऽन्यत्वम् । एवं च__ " तद्तद्रूपिणोभावाः तदतद्रूपहेतुजाः ।
तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥" अथ रूपोपादानजन्यत्वे विज्ञानस्य न रूपात्मता तथा ज्ञानोत्पादन(ज्ञानोपादान)जन्यत्वेऽपि विज्ञानस्य न ज्ञान-20 रूपता, ततश्च नैरात्म्यप्रसङ्गः । अथ ज्ञानोपादानजन्यत्वे ज्ञानाकारपरिकल्पना तथा रूपोपादानजन्यत्वे रूपाकारता, आलोकोपादानजेन्यत्वेन आलोकाकारता प्राप्नोति; ततश्च आकारकदम्बात्मकं ज्ञानं प्रसक्तम् । अनिष्टं चैतत् , अद्रयरूपत्वेनाऽभ्युपगमात् । यत् तद्रूपोत्पाद्यं विज्ञानं तत्किम् - एक-25 १ दिकमज्ञा - परि० ।