________________
४४
तत्त्वोपप्लवसिंहे
अथ परसत्तानुरोधेन सम्यक्त्वम् ; तदा किमनुपकारकपरसत्तानुरोधेन, किंवा उपकारकपरसत्तानुरोधेन ? तद्यदि अनुपकारकपरसत्तानुरोधेन सम्यक्त्वम् ; तदा सर्वासां संवितीनां सम्यक्त्वमापद्यते , अनुपकारकपरसत्ताऽविशेषात् । अथ 5उपकारकपरसत्तानुरोधेन किम् - करणभूतपरोपकारकपरसत्तानुवधेन, आहो कर्मतापन्नोपकारकसत्तानुवेधेन ? तद्यदि करणभूतपरोपकारकसत्तानुवेधेन , तदा सर्वासां संवित्तीनां सम्यक्त्वमापद्यते , करणभूतपरोपकारकसत्ताऽविशेषात् । अथ कर्मतापन्नपरसत्तानुवेधेन सम्यक्त्वमभिधीयते; तदा रागादि10संवेदनस्य सम्यक्त्वं न प्राप्नोति अतीतानागतार्थविषयत्वे योगिज्ञानस्य च ।
यत् तत् व्यभिचारि ज्ञानम् तत्किम् - व्यभिचारिभूतेन उपादानज्ञानेन जन्यते, आहो अव्यभिचारिभूतेनोपादानज्ञानेन जन्यते ? तद्यदि व्यभिचारिभूतेन उपादानज्ञानेन 15जन्यते; तदपि व्यभिचारिभूतेन - प्राप्ता व्यभिचारिपरंपरा । संग्राह्यमव्यभिचारि न लभ्यते ।
अथ अव्यभिचारिभूतेनोपादानज्ञानेन जन्यते; तद् उपादानकारणमनुकुर्वद्वा उपजायते, अननुकुर्वद्वा ? तद्यदि उपादानकारणानुकारेणोत्पाद्यते; तदा किमाप्नोति ? अव्यभि20चारि स्वरूपानुकारेण उत्पाद्यते। कथम् ? अव्यभिचारस्य ज्ञानतादात्म्येन व्यवस्थितः। न च एकदेशानुकारित्वमस्ति उपादानकारणस्य निरवयवत्वात् । एवं सर्व विज्ञानमव्यभिचारि प्रसक्तम् - अपोह यज्ञानानुपपत्तिः। नच व्यभिचाराऽव्यभिचारी ज्ञानाद् व्यतिरिक्तौ स्तः। यथा रसाकारो रूपाकारो 25वा ज्ञानाकाराद् भिन्नः न तथा व्यभिचाराऽव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ । ततश्च व्यभिचाराकारोऽत्र निराक्रियते । किमुक्तं