________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
४३
अथ निर्विषयम् ; न तर्हि तदुदकज्ञानम् , उदकज्ञानतया तु प्रतिभाति, तेन जानीमो न निर्विषयम् । यदि च निर्विषयम् । कथं तन्मिथ्याज्ञानम् ? ज्ञानमात्रानुरोधेन न मिथ्याज्ञानं नापि सम्यग्ज्ञानम् । न च भवतां पक्षे ज्ञानं निरालम्बनमस्ति खांशपर्यवसितत्वात् ।
5 [$ ७. व्यभिचारित्वस्य विकल्प्य खण्डनम् । ] विज्ञानस्य व्यभिचारिता किम् - स्वसत्तामात्रानुरोधेन, आहो परसत्तानुरोधेन ? तद्यदि वसत्तानुरोधेन : तदा सर्वविज्ञानानां व्यभिचारिता प्राप्नोति, ज्ञानरूपतायाः सर्वत्र भावात् , न किंचिद्विज्ञानमव्यभिचारि स्यात्।
10 अथ परसत्तानुरोधेन व्यभिचारिता उच्यते किम्अनुपकारकपरसत्तानुरोधेन , आहो उपकारकपरसत्तानुरोधेन ? तद्यदि अनुपकारकपरसत्तानुरोधेन व्यभिचारिता; तदा सर्वसंवित्तीनां व्यभिचारिता प्राप्नोति , अनुपकारकपरसत्ताऽविशेषात् । अथ उपकारकपरसत्तानुरोधेन व्यभिचारि अभि-15 धीयते किं- करणभूतपरोपकारकपरसत्तानुरोधेन , आहो कर्मतापन्नोपकारकपरसत्तानुरोधेन ? तद्यदि करणभूतपरोपकारकसत्तानुवेधेन; तदा सर्वासां संवित्तीनां मिथ्यात्वमापद्यते करणभूतपरोपकारकसत्ताऽविशेषात् । ___अथ कर्मकारकोपकारकपरसत्तानुवेधेन मिथ्यात्वम् । तद-20 युक्तम् । न तस्य मिथ्यात्वं सत्योदकज्ञानस्येव कर्मकारकेण उपक्रियमाणत्वात् ।
[F ८. ज्ञानगतस्य सम्यक्त्वस्यापि विकल्प्य विदलनम् ! ] तथा सम्यग्ज्ञानत्वमपि कथम् ? किं ज्ञानसत्तामात्रानुरोधेन, आहो परसत्तानुरोधेन ? तद्यदि ज्ञानसत्तामात्रानुरोधेन स-25 म्यक्त्वम् ; तदा सर्वसंवित्तीनां सम्यक्त्वं प्रामोति ज्ञानाकारस्योपपत्तेः।