________________
.
तत्त्वोपप्लवसिंहे
तदेतदुदकज्ञानम् उदकं विषययति, उदकाभावम् , आत्मानम् , न किंचिद्वा ? तद्यदि उदकं विषययति; तदा न तस्य मि. थ्यात्वं मधुरोदकसंवेदनस्येव । तत्र तथ्योदकं प्रतिभाति ; किं यत् प्रतिभाति तत् तथ्योदकम् , आहो यत् तथ्यं तत् 5प्रतिभाति ? तद्यदि यत् प्रतिभाति तत् तथ्यम्; इहाप्युदकं प्रतिभाति , प्राप्ता तस्यापि तथ्यता। __ अथ यत् तथ्यं तत् प्रतिभाति; तस्य तथ्यता कथं ज्ञायतेकिं प्रतीत्या, अन्यथा वा ? यदि प्रतीत्या; इहापि प्रतीतिरुत्पद्यते, अस्तु तथ्यता । अथ प्रतीतिमन्तरेण तथ्यता उप10पाद्यते; तदा सुस्थितानि वस्तूनि ! सर्ववासिद्धिः स्यात् ।
अथ प्रतीयते-यदि नाम बाध्यते; 'प्रतीयते बाध्यते च ' इति चित्रम् । प्रतीयमानत्वं च जनकत्वा-ऽऽकारार्पकत्वेन व्याप्तम् , यच न जनयति नाकारमर्पयति यति)न्नावभाति , यथा रूपज्ञाने रसः। प्रतीयते च अत्र उदकम् , जनकत्वा-ऽऽकारार्पक15त्वोपपत्तिः, तदुपपत्तौ च न बाधोपपत्तिः, जनकत्वाऽऽकारापकत्वस्य सत्त्वनिवन्धनत्वात् ।
अथ अभावं विषययति; न तर्हि उदकज्ञानरूपता अभावगृहीतिरूपत्वात् । नापि तस्य मिथ्यात्वम् , अभाव विषयत्वस्योपपत्तेः । न च सौगतमते अभावे कश्चिद् विषयार्थ 20उपपद्यते जनकत्वा-ऽऽकारापकत्वव्यतिरेकात् । उदकाकारो हि प्रतीत्युत्कलितः, तदभावश्च अप्रातीतिक इहोपपाद्यते मुग्धबौद्धैः। .
अथ आत्मविषयम्; तथापि व्यभिचारिता नोपपद्यते स्वांशस्याऽवञ्चनात्, नहि ज्ञानम् आत्मानं विसंवदति । नापि 25तद् उदकज्ञानत्वेन व्यपदेश्यं रागादिसंवेदनवत् । नहि नीलाभं संवेदनं रसविज्ञानात्मकत्वेन व्यपदिश्यमानं दृष्टम् ।