________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । ४१ स्मरणमपि समर्थमुत्पन्नं सत् 'गौः' इत्युत्पादयति । एवं सति यदुक्तम्- 'यः प्रागजनको बुद्धेः' इत्यादि, तत् स्वपरमतमनालोच्यैव जेगीयते । न च ज्ञानाकारव्यतिरेकेण वै(वि)कल्पाकारोऽन्योऽस्ति । कल्पनाकारो हि ज्ञानतादात्म्येन व्यवस्थितः । ततश्च : कल्पनापोडं प्रत्यक्षम् । किमुक्तं भवति ? 5 ज्ञानापोडं प्रत्यक्षम् । यो यत्वभावोपनिबद्धः स निवर्तमानः तमादाय निवर्तते । ततश्च अज्ञानात्मकं प्रत्यक्षं भिक्षणां प्रसक्तम् ॥ छ॥
[६५. प्रत्यक्षलक्षणगतस्य अव्यभिचारिपदस्य निरसनम् ।]
तथा अव्यभिचारि पदमपि नोपादेयम् अपोहयज्ञानाऽ-10 संभवात् । ननु मार्तण्डपादसंघातोत्पादितं विज्ञानमपोहथमस्ति । कथं तदपोह्यम् ? अतथ्योदकविषयत्वात् । यद्यतथ्योदकविषयम् ; कथं तदपनीयते , अतथ्योदकाकारस्य स्वेन रूपेण विद्यमानत्वात् मधुरोदकदीर्घोदकाकारवत् ? अथ तत्र मधुरोदकं विद्यते, स्वेन रूपेण प्रतीयमानत्वात् ; तदिहाप्युदकं15 प्रतीयते ' उदकं गृह्णामि ' इति व्यवहारदर्शनात् । सत्यम् , प्रतिभाति , अतथ्यं तु प्रतिभाति ।
[६६. प्रसङ्गायाताया अतध्यताया विकल्प्य दृषणम् । ] अतथ्यता का ? किं प्रतीयमानस्याभावः , अथ प्रतीयमान एवाऽभावः ? यदि प्रतीयमानस्याभावः; सोऽत्र नाव-20 भाति, उदकाकार एवाऽवभाति । अथ प्रतीयमान एवाऽभावः; सोप्यनुपपन्न एव; नहि भावाकारे प्रतीयमाने अभावकल्पना युक्ता, अन्यथा रसाकारे प्रतीयमाने रूपाकारः परिकल्पयितव्यः । ततश्चालूनविशीर्ण जगत् स्यात् । यदि च अभावः प्रतिभाति : कथं तदुदकज्ञानम् , मिथ्या ज्ञानं घोच्यते अभाव-25 विषयस्य स्वेन रूपेण विद्यमानत्वात् ?