________________
तत्त्वोपप्लवसिंहे नसामर्थ्य स्यात् तदा प्रथमाक्षसन्निपातवेलायामपि कुर्यात् तदाऽत्मनोऽविशेषात् । तदुक्तम्" यः प्रागजनको बुद्धरुपयोगाविशेषतः ।
स पश्चादपि तेन स्यादापायेऽपि नेत्रधीः ॥" 5 अथ शब्दस्मरणमपेक्ष्य उत्पादयति ; तदेवास्तु तदेहानन्तरफलत्वाद् 'गौः' इत्यादिज्ञानस्य । तदुक्तम्
" अर्थोपयोगेऽपि पुनः स्मार्त शब्दानुयोजनम् ।
अक्षधीयद्यपेक्षेत सोऽर्थों व्यवहितो भवेत् ॥" तदेतदयुक्तम् । प्राथमिकज्ञानं 'गौः' इतिज्ञानम् , गोपिण्डा10वगाहिनि विज्ञाने 'गौः' इतिज्ञानसंज्ञा । ततश्च प्रथमाक्षसन्निपातजमपि भवति । एवं च पूर्वापरविज्ञानयोः एकविषयत्वे उभयोः 'गौः' इतिज्ञानसंज्ञाविषयत्वम् ।
नन्वेकस्य क्रमभाविविज्ञानजनकत्वम् किम्- एकेन खरूपेण, स्वरूपान्तरेण वा ? एकेनैव खभावेन जनयति इति ब्रूमः। 15नन्वेककालीनता पूर्वापरविज्ञानयोः एकखभावायत्तत्वे सति
आपद्यते; यद्येवम् एकनीलोत्पादितनयनालोकविज्ञानानाम् एकदेशसम्बन्धित्वम् एकाकारता एकव्यक्तित्वमापद्यते एकनीलोत्पाद्यत्वाऽविशेषात् । अथ एवंभूतं तत् तस्य स्वरूपं यत् चित्रकार्यकरणात्मकम् ; यद्येवं मामकेऽपि पक्षे क्रमभाव्यनेक20कार्यकरणात्मकमेव स्वरूपं खहेतुसामर्थ्य नियमितस्योत्पत्तेः । अथवा, यथा त्वदीये पक्ष मनोज्ञानं स्खलक्षणविषयं न च प्रथमाक्षसन्निपातजम् अपि तु इन्द्रियज्ञानेन स्वविषयानन्तरविषयसहकारिणा उत्पाद्यते तथा 'गौः' इत्यादिकमपि ज्ञानं प्रथमाक्षजेन विज्ञानेन खविषयानन्तरविषयसहकारिणा स्मरणाद्युपहि25तेन चोत्पाद्यते इति निर्विषयत्वाभावः, विषयान्तर[स्य स्खकारणसामर्थ्यानुरोधेन 'गौः इत्यादिज्ञानजननयोग्यस्योत्पत्तेः