________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । सति विकल्पिका बुद्धिरुत्पद्यते-'इदमुपलभे इदं नोपलभ्यते' इत्यादिका” एतदपि न युक्तम् । यथा रूपखलक्षणस्य सविकल्पकविज्ञानजनकत्वं नास्ति अविकल्पकत्वात् , तथा विज्ञानखलक्षणमपि सविकल्पकविज्ञानोत्पादकत्वमतिवर्त्तते अविचारकत्वाऽविशेषात् । अथ अविचारकत्वाऽविशेषेऽपि निर्वि-5 कल्पकविज्ञानस्य सविकल्पकविज्ञानोदयदानसामर्थ्य जेगीयते; तदा रूपादिखलक्षणस्याप्येतदस्तु, ततश्च प्रत्यक्षानुमानयोभैदानुपपत्तिः।
[४. प्रत्यक्षसाधन एवेत्यादेवौद्धोक्तस्य खण्डनम् । ] ___ यदप्यन्यदुक्तम्-" प्रत्यक्षसाधन एव इन्द्रियधियः कल्पनाविरहः । ” अथ कोऽयं कल्पनाविरहो नाम ? किं ज्ञानकाय-10 तादात्म्यव्यवस्थितदेहः, तद्विपरीतो वा ? तद्यदि ज्ञानतादात्म्येन व्यवस्थितः; तदा प्रत्यक्षसाधनः कल्पनाविरहः इति । किमुक्तं भवति ? प्रत्यक्षसाधनो विज्ञानाकारः प्रत्यक्षधियः । न केवलं प्रत्यक्षकल्पनाविरहः प्रत्यक्षसाधना(नोड)नुमानधियोऽपि प्रत्यक्षसाधन एव, ज्ञानाकारस्य अनुमानज्ञानेऽपि भावात्।15 अथ अनुमानज्ञानस्यापि आत्मसंवित्तौ कल्पनारहितत्वं बाहयार्थापेक्षया कल्पनात्मकत्वमिति चेत् ; तदेतन्मुग्धाभिधान(न) दुनोति मानसम्
" कथं स्युर्विविधाकाराः तदेकस्य वस्तुनः ।"
अथ भेदेन व्यवस्थितः तद्गतिः कथम् ? न खसंवेद्योऽसौ,20 ज्ञानाकारव्यतिरेकात् । नापि जनकत्वा-ऽऽकारार्पकत्वेन गृहयते, विरहस्य सामर्थ्यव्यतिरेकात् । एवं च सति यदुक्तम्" प्रत्यक्षसाधन एष इन्द्रियधियः कल्पनाविरहः " इति तदालवल्गितम् ॥छ॥
अथ 'गौः' इत्यादि ज्ञानं कल्पना । कथमस्य कल्पनात्वम् ,25 अर्थेनाऽजनितत्वात् ? । यदि गवादेरर्थस्य गौरित्यादिज्ञानोत्पाद