________________
३८
त वोपप्लवसिंहे
लक्षणोद्भवत्वं विवक्षितम् , आहो अर्थमात्रोद्भवत्वम् ? तद्यदि प्रतीयमानस्खलक्षणोद्भवत्वं विवक्षितम् । तदा रागादिसंवेदनस्य योगिप्रत्यक्षस्य च प्रतीयमानस्खलक्षणोद्भवत्वं न लभ्यते । अथ इन्द्रियजप्रत्यक्षविवक्षया इदमपदिश्यते अर्थसामथ्र्येन 5समुद्भूतत्वादिति साधनम् । तत्रापि [प्रतीयमानार्थसमुद्भव ? ]स्य बाहयार्थनिराकरणपरत्वात् ।
अस्तु वा बाहयोऽर्थः; तथापि किं तेन निमित्तात्मकेन उत्पाद्यते, आहो उपादानात्मकेन ? तद्यदि निमित्तभूतेन उत्पाद्यते ; तदा तदुत्पादितरूपस्य रूपरूपता न प्राप्नोति निमित्त10भूतरूपोत्पादितज्ञानवत् । अथ उपादानात्मकेन उत्पाद्यते; तदा अनया रीत्या रूपरूपता आपद्यते ज्ञानस्य रूपोत्पादितरूपस्येव । ततः सर्वम् अविज्ञानात्मकं जगत् स्यात् । अविज्ञानात्मके च जगति मानमेयव्यवहाराभावप्रसङ्गः। तत्पसक्तौ च कस्येदं लक्षणं प्रस्तूयते ? अथ उपादानभूतेन रूपेण 15रूपमुत्पाद्यते निमित्तात्मकेन तु ज्ञानमिति चेत् ; तदिदं महानुभावस्य दर्शनम् । न हन्यबालिश एवं वक्तुमुत्सहेत, न हायेकस्य अनेकाकारता नाम । न चानेकनामकरणे मेयाद्यन्यत्वमस्ति । अन्यत्वे वा न तहीदं वक्तव्यम्-" स्खविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन मनोविज्ञानं निष्पाद्यते । तदे20वम् इन्द्रियज्ञानस्य प्रतीयमानार्थसमुद्भवत्वाभावः । दृष्टान्तश्च साधनविकल:-न रूपादिखलक्षणस्य रूपरूपावभातार्थोद्भवत्वमस्ति । ___ अथ अप्रतीयमानस्खलक्षणोद्भवत्वं मे विवक्षितम् । तदाऽतीतानागतानुमानविकल्पानाम् अप्रतीयमानार्थोद्भवत्वेन निर्वि25कल्पकत्वमापद्यते । [$३. एकोपलम्भसामर्थ्यात् विकल्पिकाया: समुद्भव इत्याद्युक्तेनिरसनम् । ] .
यदप्यन्यदुक्तम्-" एकोपलम्भसामर्थ्याद् विकल्पिकायाः समुद्भका-'इदमुपलभे इदं नोपलभे' इति किल एकभूतलोपलम्भे