________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा।
कल्पकत्वे तर्हि अपोहयो मृग्योऽधुना कल्पनापोढपदस्य । अथोभयं प्रतिभाति; तदयुक्तम् ; एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वाभ्युपगमात् । ___ अथ अतीतानागतार्थगृहीतिरूपा कल्पनाः तत्र किमवभाति-अर्थः, तदभावो वा, न किंचिदा ? यद्यतीतोऽर्थः प्रति- 5 भाति; न तर्हि तस्य कल्पनात्वम् वर्तमाननीलज्ञानवत् । नाप्यर्थस्य अतीतता प्रतीयमानत्वेन नीलजलादिवत् । नहि प्रतीयमानस्य अतीतता नाम । यदि च प्रतीयमानस्यापि अतीतता उच्यते तदा सर्वस्य वुड्युपलक्षितस्य अतीतता भवेत् । ततश्च वर्तमानव्यवहारविरहः स्यात् ।
10 अथ तभावः प्रतिभाति : तस्याप्यतीतता नास्ति, स्वेनरूपेण विद्यमानत्वात् । नापि तद्विषयविज्ञानस्य कल्पनात्वमुपपद्यते, अभावार्थसामर्थ्येन समुद्भवात् । असामर्थे वा विषयार्थश्चिन्त्यः । अथ निर्विषयम् : न तर्हि तदतीतानागतार्थविज्ञानम् अतीतानागतार्थोपकाररहितमपदिश्यते । न च निर्वि-15 षयत्वे सति सविकल्पकत्वं निर्विकल्पकत्वं वा, अपि तु ज्ञानात्मतयैव तस्याऽव्यवस्थितिः । न च ज्ञानमात्रतया. तस्य सविकल्पकत्वमिष्यते सर्वज्ञानानां सविकल्पकत्वप्रसङ्गात् । यदि च निर्विषयत्वेन अतीतानागतार्थविज्ञानस्य सविकल्पकत्वमभ्युपेयते, निर्विकल्पकाभिमतकेशोण्डुकविज्ञानस्यापि सचि-20 कल्पकत्वमापद्यते । न च अतीतानागतविज्ञानस्य निर्विषयत्वमस्ति स्वांशपर्यवसितत्वात् । नापि स्वांशव्यतिरिक्तोऽर्थोऽन्योस्ति एकोपलस्ते(०लम्भे)न अपोहितत्वात् । न च खांशस्य वञ्चनोपपद्यते , तदभावात् सर्व विज्ञानं सविकल्पकं निर्विकल्पकं वा वक्तव्यं भेदानुपपत्तेः।
25 यदप्युक्तम्- कल्पनापोढं प्रत्यक्षम् अर्थसामर्थ्येन समु. द्रवात् रूपादिखलक्षणवत् " इति; तत्र किं प्रतीयमानख