________________
३६
तत्वोपप्लवसिंहे
तद्यदि प्रतीत्यारूढखलक्षणजन्यता : प्रतीतौ किमवभातिकिमर्थः, ज्ञानम्, उभयं वा ? तद्यदि अर्थः ; तदयुक्तम् ; अप्रतीतायां प्रतीतौ तदनवभासनात् । अथ ज्ञानम् न तर्हि तद् आत्मानमुत्पादयति, स्वात्मनि क्रियाव्यतिरेकात् । अथ उभयं प्रतिभाति तदयुक्तम् एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वात् । यदि चोभयं प्रतिभाति तदा अर्थवत् ज्ञानेनापि ज्ञानमुत्पाद्यते इत्यापद्यते । तच्चायुक्तम्, स्वात्मनि क्रियाविरोधात् ।
3
अथ अप्रतीयमानखलक्षणजन्यता ; व (त) गतिः कथम् ? 10न प्रत्यक्षेण; अप्रतीयमानत्वादेव । नाप्यनुमानेन स्वभाव-कार्यलिङ्गानवगतेः । न स्वभावानुमानं तत्कार्यतादात्म्ये, तदनवगतौ तस्याऽनवगतेः । नापि कार्यानुमानम् ; तद्भूत कार्यानुपलब्धेः, पिशाचपरमाणुमहेश्वरकल्पार्थोत्पादितं कार्ये नेहोपलभ्यते । अथ ज्ञानमेव तस्य लिङ्गम् ; तदयुक्तम् ; तेन सह तस्य सम्ब15न्धानवगतेश्चिन्मात्रतयैव न त्वन्योऽर्थः न च चित् आत्मानं जनयति । समनन्तरज्ञानं तस्य हेतुः इति चेत्; तदयुक्तम् ; तदवगतौ न मानमस्ति परसन्तानज्ञानार्थकल्पं तदपि न खसंवेद्यं तत्कार्यज्ञानस्य ततो भिन्नत्वात् परसन्तानज्ञानार्थवत् । नाप्यनुमानेन : तदायत्तताया अनवगतेश्चिन्मात्रतयैव आत्मा20 नमवगाहयति नान्यायत्ततया ततोऽन्यस्य पिशाचेश्वरे (र)तुल्यत्वात् । यदि च समनन्तरविज्ञानोत्पाद्यत्वेन स्पष्टता; तदाऽनुमानज्ञानस्यापि समनन्तरज्ञानोत्पाद्यत्वेन निर्विकल्पकत्वमनुषक्तम् ।
"
अथ स्वलक्षणप्रतिभासिता स्पष्टता ; तत्र किं प्रतिभाति - 25 किम् अर्थः, ज्ञानम्, उभयं वा ? तद्यदि अर्थ: : तदयुक्तम् ; अप्रसिद्धायाः (यां) प्रसिद्धी तत्प्रसिद्ध्यभावात् । अथ ज्ञानम् ; तदनुमानेऽपि प्रतिभाति तदद्भ्यस्तु निर्विकल्पकम् । तन्निर्वि