________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा |
क्षणस्याप्रतिभासनात् स्पष्टाभं च तगीयते । न च ताथागते दर्शने तथाभूतं ज्ञानमस्ति यत् स्वलक्षणाप्रतिभासि, सर्वस्मिन् ज्ञाने ज्ञानका प्रतिभासनात् ।
३५
अथ प्रतीयमाना सत्यता अस्पष्टता; तदा केशोण्डुकेदुयविज्ञानस्य अस्पष्टता प्राप्नोति । न च प्रतीयमानस्यास- 5 त्यता, विज्ञान कार्यस्य प्रतीयमानत्वात् । न च तस्य विसंवादोऽस्ति ।
अथ अतात्त्विकार्थगृहीतिरूपा कल्पना तदा केशोण्डुकविज्ञानस्यापि कल्पनात्वमापद्यते । अथ स्वयमतात्त्विकी ; तदा प्रतीतिः कथम् ? प्रतीतिश्चेद् अतात्त्विकी कथम् ? |
10
अथ त्रिरूपाल्लिङ्गतोऽर्थदृक् कल्पना इति चेत्; सापि किं लिङ्गजन्यत्वेन कल्पना, आहो निर्विषयत्वेन ? यदि लिङ्गजन्यत्वेन कल्पनात्वम् तदा लिङ्गावगाहक निर्विकल्पकविज्ञानस्यापि कल्पनात्वमापद्यते । न च अनुमेयज्ञानस्याव्यवधानेन लिङ्गोत्पाद्यत्वमस्ति ।
15
अथ निर्विषयत्वेन कल्पनात्वम् तदपि न योयुज्यते ; स्वांशविषयत्वादनुमानज्ञानस्य । अथ स्वांशविषयव्यतिरिक्त. विषयो नास्ति, निर्विषयत्वेन कल्पनात्वमपदिश्यते ; तदा केशोकविज्ञानस्यापि कल्पनात्वमापद्यते ।
अथ यत् निर्विकल्पकं तत् विस्पष्टतयोपजायते । आनुमा - 20 तु अस्पष्टाभं तेन तत् कल्पनाज्ञानम् ; तदयुक्तम् ; अस्पष्टता च यथा न संभवति तथा प्रागेवोक्ता ।
निर्क
[ $ २. प्रसङ्गायाताया: प्रत्यक्षीयस्पष्टताया विकल्प्य विडम्बनम् । ] प्रत्यक्षज्ञानस्य च स्पष्टता का ? किं खलक्षणजन्यता, आहो स्वलक्षणप्रतिभासिता ? तद्यदि खलक्षणजन्यता : किं प्रतीय- 25 मानवलक्षणजन्यता, तद्विपरीतस्वलक्षणजन्यता वा ? |
१. कार्य - परि० ।