________________
तोपप्लवसिंहे
३४
तदा विपर्ययज्ञानम् । तच अव्यभिचारिपदेन अपोदितम्, न कल्पनापोढपदमुपादेयम् ।
अथ अभिलापवती प्रतीति: कल्पना किम्-अभिलापात्मिका, आहो अभिलापोत्पाद्या, अभिलापगृहीतिर्वा ? तयदि 5 अभिलापात्मिका; प्रतीतिः कथम् ? प्रतीतिश्चेत्; ' अभिलापात्मिका इति न वक्तव्यम् । विरुडाकारयोस्तादात्म्यव्यतिरेकात् । अथ अभिलापोत्पाद्या; तदा शब्दज्ञानानां कल्पनात्वमापद्यते । तेषां च कल्पनात्वे शब्दव्यवस्थानुपपत्तिः स्यात् । अभिलापगृहीतित्वेन कल्पनात्वम् तदा सर्वासाम् अभिलाप10 गृहीतीनाम् कल्पनात्वमापद्यते, तत्कल्पनात्वे शब्दव्यवस्थानुपपत्तिः ।
[ $ १. प्रसङ्गायाताया अस्पष्टताया विकल्प्य दूषणम् । ]
अथ अस्पष्टाकारा प्रतीतिः कल्पना ; अस्पष्टता का ? किम् अविज्ञानात्मकत्वम्, आहो स्वलक्षणाजन्यत्वम्, अथ प्रतीय15 मानार्थाजन्यत्वम्, प्रतीयमानासत्यता वा, स्वलक्षणाप्रतिभासिता वा ? तद्यदि अविज्ञानात्मकत्वमस्पष्टता; तदयुक्तम् ; प्रतीतिरिह अस्पष्टाकारा गीयते सा कथं विज्ञानात्मिका भवितुमर्हति ? अथ स्वलक्षणाजन्यता अस्पष्टता; तदा ज्ञानाकस्मिकत्वप्रसङ्गः । अथ प्रतीयमानार्थाजन्यत्वम् तदा 20 रागादिसंवेदनस्य अस्पष्टता प्राप्नोति, रागादीनां स्वात्मसंवेदनोत्पादकत्वाऽयोगात्, स्वात्मोत्पादकत्वं वस्तूनां न दृष्टपूर्वम् । तथा केशोण्डुकविज्ञानस्या (स्य) प्रतीयमानकेशोण्डुकोत्पाद्यत्वं न विद्यते, तदद्भ्य (पि) स्पष्टाभमुपजायते न तु अस्पष्टाभम्, " न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासिता " 25 [ प्रमाणवा० ३.२८३ ] इति वचनात् ।
अथ स्वलक्षणाप्रतिभासित्वमस्पष्टता ; तदा निर्विकल्पाभिमतकेशोण्डुकविज्ञानस्य अस्पष्टता प्राप्नोति, तत्र स्वल