________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
अथ स्मृत्युत्पादकं ज्ञानं कल्पना; तयुक्तम् : रूपादिदर्श नादपि स्मृतिरुत्पद्यते, न च कल्पनात्वम् । " यत्सन्निधाने यो दृष्टः तद्दष्टेस्ततौ(०तड्डनौ) स्मृतिः” इति वचनात् । ___ अथ स्मृतिरूपत्वेन कल्पना; तत्रापि किं गृहीतग्राहित्वन, निर्विषयत्वेन, अपूर्वार्थगृहीतिरूपत्वेन वा ? तद्यदि गृहीतार्थ-5 ग्राहित्वेन कल्पनात्वम् ; तदा प्रथमानुभवस्यापि कल्पनात्वमापद्यते गृहीतार्थग्राहित्वाविशेषात् इत्युक्तं पुरस्तात् । अथ निर्विषयत्वेन ; तदा न कल्पनाकारता नाप्यकल्पनाकारता ज्ञानाकारव्यतिरेकेण। __अथापूर्वार्थगृहीतित्वेन कल्पनात्वम् । तदयुक्तम् ; न10 स्मतेरपूर्वार्थगृहीतित्वमस्ति तद्भावान्न कल्पनात्वम् । यदि च अपूर्वार्थ गृहीतित्वेन कल्पनात्वम् : रूपादिज्ञानानां कल्पनात्वमापद्यते।
अथ स्मृत्युत्पाद्यत्वेन कल्पनात्वम् । तदा रूपादिज्ञानस्यापि निर्विकल्पकत्वेनाभिमतस्य स्मृत्युत्पाद्यत्वमस्ति, तदस्तु15 कल्पनाज्ञानम् । अथ न भवति तत् कल्पनाज्ञानं स्मृत्या बोधस्वभावतयोत्पादितं कल्पनाज्ञानं न स्मरणाकारतयोत्पाद्यते; तदिदं मद्विकल्पान्दोलितबुद्धः निरुपपत्तिकाऽभिधानम् । न येकस्य स्वभावदयमुत्पश्यामः । ___अथ अभिलापसंसर्गप्रतिभासा प्रतीतिः कल्पना; स सं-20 सर्गः पारमार्थिकः, अपारमार्थिको वा ? यदि पारमार्थिकः; न तदा तस्य कल्पनात्वं रूपादिज्ञानस्येव । अथ अपारमार्थिकः; कथं तदाभं विज्ञानम् , नैरात्म्यप्रसङ्गात् । न चाऽतात्विके विषयार्थः कश्चिल्लभ्यते, जनकत्वा-ऽऽकारार्पकत्व-सहोत्पादसत्तामात्रव्यतिरेकात् । यदि च अतात्त्विकार्थगृहीतिरूपम् :25 १. सन्मति० पृ. ५२३ ।