________________
तत्त्वोपप्लव सिंहे
द्योतयति । एवं द्वित्व संख्याव्यवहारानुपपत्तिः । अथ विकल्पेन द्रयावधारणमिति चेत्; तदयुक्तम् ; असावपि आत्मसंवेदनपर्यवसितत्वान्न द्वयं गृह्णाति । ग्रहणे वा अभ्युपेतहानम् । तदनुपपत्ती च द्वे एवेति जडचेष्टितम् ॥
३२
[ ४. सौगत संमतस्य प्रत्यक्षलक्षणस्य परीक्षा | ]
तथा, " प्रत्यक्षं कल्पनापोढमभ्रान्तम् " [ न्यायवि. १.४ ] इति न वक्तव्यम्, कल्पनापोढपदस्य अपोहचार्थासंभवात् । ननु कल्पनैव अपोहचा; केयं कल्पना-किं गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पना, आहो स्मृत्युत्पादकं वि10ज्ञानं कल्पना, स्मृतिरूपं वा स्मृत्युत्पाद्यं वा, अभिलापसंसर्गनिर्भासो वा अभिलापवती प्रतीतिर्वा कल्पना, अस्पष्टाकारा वा अतात्त्विकार्थगृहीतिरूपा वा स्वयं वाऽतात्त्विकी, त्रिरूपाल्लिङ्गतोऽर्थदृग्वा, अतीताऽनागतार्थनिर्भासा वा ?
5
तद्यदि गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं क 15ल्पना; तत्किम् अविद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पना, उत विद्यमानोत्पाद्यत्वेन ? तद्यदि अविद्यमानगुणचलन जात्यादिविशेषणोत्पाद्यत्वेन कल्पनात्वम् ; तद्युक्तम्; अविद्यमानस्य जनकत्वाभावादेव अकल्पनात्वम् । अथ विद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पना; 20 तत्किं सविषयं कल्पनाज्ञानम्, निर्विषयं वा ? तद्यदि सविषयं सत् कल्पनाज्ञानम्; तदयुक्तम् ; गुणचलनजात्यादिजन्यत्वेऽपि न कल्पनात्वम् अर्थसामर्थ्यसमुद्भवत्वस्याऽनतिवृत्तेः । अथ निर्विषयं सत् कल्पना; तदा निर्विषयत्वमेव कल्पनात्वे कारणं न गुणचलनजात्यादिविशेषणजन्यत्वम् । यदि 25च तन्निर्विषयम्; तदा न कल्पनाज्ञानम्, नाप्यकल्पनाज्ञानम्, ज्ञानमात्रता स्यात् । ज्ञानात्मतया च कल्पनात्वे सर्वे ज्ञानं कल्पनाज्ञानं स्यात् ।