________________
३. ताथागतसंमतस्य प्रमाणलक्षणस्य परीक्षा |
३१
इति न वक्तव्यम् । अथ असत्सामान्यविषयम्; न तर्हि तस्य भ्रान्तता असतः स्वेन रूपेण विद्यमानत्वात् । न च असद् विषयभावं प्रतिपद्यते, जनकत्वाऽऽकारापकत्वव्यतिरेकात् । अव्यतिरेके वा वस्तुत्वप्रसङ्गः, तत्प्रसक्तौ च प्रत्यक्षानुमानयोभेदानुपपत्तिः ।
5
अथ निर्विषयम् ; न तर्हि मानयोर्भेदोऽस्ति, अनुमानज्ञानस्य विषयाऽसंभवात् । नापि भ्रान्तता निर्विषयत्वादेव । न च ज्ञानस्य स्वसत्तामात्रेण भ्रान्तता अभ्रान्तता च उपपद्यते, किन्तु परोपधानवशात् । अथ खांशविषयम्; तथापि प्रत्यक्षानुमानयोर्न नानात्वम् उभयोः स्वलक्षणविषयत्वात् । न चानुमान -10 ज्ञानस्य भ्रान्तता खांशस्याऽवञ्चनात् ।
"
तथा प्रत्यक्षस्यापि विषयो वक्तव्यः - किं रूपादिखलक्षणविषयम्, आत्मविषयम् उभयविषयं वा ? तद्यदि रूपादिमाबालोचकम् ; तदयुक्तम् ; तदनवगतौ एतद्गत्यभावात् । अथ ज्ञानमात्रकायावगाहकम् ; तदपि नोपपद्यते, विषयभावस्य जन-15 her-ssकारापकत्वेन व्यवस्थितेः । न च स्वात्मनि जनकत्वमाकारापकत्वं चोपपद्यते विषयिणमपेक्ष्य विषयो भवति, यथा कारणमपेक्ष्य कार्य, कार्य वापेक्ष्य कारणं तथेहापि । यदि च प्रत्यक्षज्ञानेन आत्ममात्रम् आत्मसात् क्रियते; तदाऽनुमानेप्येतदस्ति प्रत्यक्षानुमानयोर्भेदानुपपत्तिः । अथ उभयं विषयी - 20 क्रियते; तदप्ययुक्तम् ; एकोपलम्भस्य द्वितीयाकारपरिहारेण व्यवस्थितत्वात् । यदि च रूपगृहीतिरेव ज्ञानगृहीतिः तदा रूपस्य ज्ञानरूपता, ज्ञानस्य वा रूपरूपता, रूपगृहीतेर्वा रूपाऽव्यवस्थापकत्वम् । ने च एकस्य आकारद्वयं पश्यामः ।
-
न च द्वित्वावधारणा (ण) मिहोपपद्यते । प्रत्यक्षं ज्ञानम् 25 आत्मानं गृह्णदुपजायते नानुमानं विषययति । तथा, अनुमानमपि आत्मानमात्मसात्कुर्वदुपजायते, न प्रत्यक्षं ज्ञानमव