________________
३०
तत्त्वोपप्लवसिंहे
[$३. सौगतसंमताया मानमेयसंख्याया निरसनम् । ] तथा, मानमेयसंख्यापि सौगतमते नोपपद्यते । तदेव कथम् ? कथ्यते-ढे एव प्रमाणे न मानान्तरमस्ति । तद्वित्वं किं व्यक्तिभेदेन, आकारभेदेन, विषयभेदेन वा ? यदि व्यक्तिभेऽदेन; तदा अपरिसंख्येयत्वं ज्ञानव्यक्तीनामानन्त्याद् - द्वित्वानुपपत्तिः । न च ज्ञानानां भेदोऽस्ति; अज्ञानाद्वि(द्धि) ज्ञानं ज्ञानात्मतया भिद्यते, ज्ञानान्तरात्तु कथं निवर्त्तते-किं ज्ञानात्मतया, आकारान्तरेण वा ? यदि ज्ञानाकारतया भिद्यते; तदा
अन्येषाम् अज्ञानात्मकत्वप्रसङ्गः रसादेरिव । अथ आकारान्त10रेण व्यावर्तते; तदा अज्ञानात्मता तस्य उत्पद्यते रसादेरिव ।
अथ आकारभेदे ज्ञानयोर्भेदः, सोप्यनुपपन्न एव; ज्ञानाकारव्यतिरेकेण प्रत्यक्षानुमानयोर्नाकारान्तरमस्ति । तदुपगमे वा ज्ञानाकारविरहः स्यात् । न च आकारसमूहात्मकं ज्ञानम् , तस्याभिन्नात्मकत्वात् । 15 अथ विषयभेदेन वैविध्यमुपपाद्यते; तदाऽनुमानज्ञानस्य विषयार्थो वक्तव्यः - किम् अग्न्यादिस्खलक्षणविषयम् , विद्यमानसामान्यविषयम् , अपारमार्थिकसामान्यविषयं वा, निर्विषयं वा, खांशविषयं वा ? यदि अग्न्यादिस्खलक्षणविषयम् । तदा प्रत्यक्षानुमानयोः भेदानुपपत्तिः, अभिन्नविषयत्वात् । अथ आनु20मानिके ज्ञाने अग्निमात्रं प्रतीयते, प्रत्यक्षे तु तार्णादिविशेषात्मतया प्रतीयते; यद्येवं स्खलक्षणविषयत्वं नातिवर्त्तते अनुमानस्य यदि नाम वहेरेव प्रपश्चता । अथ सत्सामान्यविषयत्वम् तथापि प्रत्यक्षानुमानयोन भेदोऽस्ति, सामान्यस्य स्खलक्षणरूपत्वात् । न च सत्सामान्यस्य विज्ञानविषयतोपपद्यते, 25नित्यत्वेन जनकत्वाकारार्पकत्वानुपपत्तेः । न च सत्सामान्य विषयत्वे भ्रान्ततोपपद्यते । ॥ भ्रान्तिरप्यर्थसम्बन्धतः प्रमा"