________________
३. ताथागत संमतस्य प्रमाणलक्षणस्य परीक्षा |
अथ अर्थमापकत्वमविसंवादः तत्र किम् - अर्थमात्रप्रापकस्वम्, आहो अवभातार्थप्रापकत्वम्, तज्जातीयोदकप्रापकत्वं वा, स्वोत्पादकाऽर्थप्रापकत्वं वा, अथ स्वोत्पादककारकाणां ध्रुव भावित्वमविसंवादः १ यद्यर्थमात्रप्रापकत्वम् : केशोण्डुकेन्दुद्रयसंवेदनस्यापि अविसंवादित्वमापद्यते । अथ अवभा- 5 तार्थप्रापकत्वम् तदा अनुमानज्ञानस्य अविसंवादित्वं न लभ्यते अवभातार्थाऽप्रापकत्वात् । अनुमानज्ञाने हि सामान्याकारोऽवभाति, न चासौ प्राप्यते स्वयमसत्त्वात् । तथा, योगिज्ञानस्य अतीतानागतार्थे समुत्पन्नस्य अर्थप्रापकत्वं न विद्यते । तथा रागादिसंवेदनेऽपि जाते न अवभातरागादि- 10 प्राप्तिरस्ति । तथा, प्रत्यक्षेऽपि विज्ञाने नाऽवभातार्थप्राप्तिरस्ति, क्षणिकत्वेन अस्तमितस्वात् । अथ तज्जातीयोदकप्रापकत्वेन अविसंवादित्वमुच्यते; तदयुक्तम्; उदकत्वजातेरभावात् ।
२९
अथ अनुदकत्वव्यावृत्तिर्जातिरित्युच्यते; सा उदकव्यक्तिभ्योऽव्यतिरिक्ता, व्यतिरिक्ता वा ? यद्यव्यतिरिक्ता; तदा व्य- 15 क्तिरेव न जातिः । अथ व्यतिरिक्ताः सा वस्तुभूता, अवस्तुभूता वा ? यदि वस्तुभूता; अभ्युपेतहानिः । अथ अवस्तुभूता; तद्गतिः कथम् ? न च उदकव्यक्तीनां नानात्वमुपपद्यते । यथा च नोपपद्यते तथा निवेदितं नैयायिकप्रत्यक्षलक्षणाधिकारे ।
अथ स्वोत्पादकार्थप्रापकत्वमविसंवादकत्वम् ; तदयुक्तम् ; 20 नयनालोकमनस्कारादेः प्रत्यस्तमितस्वात् । अथ स्वोत्पादककारकाणां ध्रुवभावित्वम् अविसंवादस्तदभावे तदभावप्रसङ्गात्; यद्येवं केशोण्डुकविज्ञानस्यापि ध्रुवभावि कारणाविसंवादोऽस्ति, अन्यथा आकस्मिकत्वप्रसङ्गात् । एवं चाव्यवस्थिते यदुक्तम्- " न हयाभ्यामर्थं परिच्छिद्य प्रवर्त्तमानोऽर्थक्रियायां 25 विसंवाद्यते " इति तद्वालविलसितम् ।