________________
२८
तत्त्वोपप्लवसिंहे
टीति; तदसत्; एकनीलोत्पादितानेकनीलालोकविज्ञानानां व्यक्तिनानात्वदर्शनात् । अथ अनेकाकारता नोपपद्यते; तद्युक्तम् : नीलालोकविज्ञानानाम् अनेकाकारकत्वदर्शनात् । नच तदुत्पादको नीलप्रपञ्चोस्ति, एकात्मतया स्वयमनुपगमात् । अथ 5एकविषयत्वे प्रत्यक्षानुमानव्यपदेशानुपपत्ति; तदेतदयुक्तम् । भिन्नकारणकार्यत्वेन व्यपदेश्योप(देशोप)पत्तेः । यथा एकनीलोत्पन्नानेकदेवदत्तज्ञानानां भिन्नकारणकार्यत्वेन [ देवदत्तविज्ञानानां ] भिन्नकर्तृकार्यत्वेन देवदत्तादिज्ञानव्यपदेश: तथे
हापि ॥छ॥ 10 [$२. अविसंवादि ज्ञानमित्यस्य प्रमाणलक्षणस्यापि निरास: । ]
अन्ये तु "अविसंवादि ज्ञानम्" [प्रमाणवा० २.१] प्रमाणमभिदधति । कोऽयमविसंवादार्थः - किं यथाव्यवस्थितार्थगृहीतित्वम् , बाधारहितत्वं वा, प्रतीयमानार्थजन्यता वा, प्रतीयमानार्थ प्रति प्रवर्तकत्वं वा, अर्थप्रापकत्वं वा? तद्यदि 15यथाव्यवस्थितार्थगृहीतित्वम् ; तदाऽनुमानज्ञानं(ने) नोपपद्यते । अथ बाधारहितत्वम् ; तदप्यनुमानज्ञाने नोपपद्यते । अथ प्रतीयमानार्थोत्पाद्यत्वम् ; तदप्यनुमानज्ञानस्य नोपपद्यते, सामान्याकारस्य जनकत्वव्यावृत्तः। तथा, रागादिसंवेदनस्याप्यवभातार्थोत्पाद्यत्वं नोपपद्यते, स्वात्मोत्पादने सामर्थ्यव्यति20रेकात् । तथा, योगिप्रत्यक्षस्य च प्रतीयमानार्थजन्यता न संभवति व्यतीताऽनागतयोरजनकत्वात् , जनकत्वे वा अतीताऽनागतता हीयते । अथ प्रतीयमानार्थ प्रति प्रवर्तकत्वमविसंवादार्थः । तद् विपर्ययज्ञानस्यापि प्रवर्तकत्वं विद्यते । विपरीतोत्पन्नोदकवुद्धिः प्रवर्त्तते, न च तस्य अविसंवादोऽस्ति । 25सत्योदकज्ञानेऽपि जाते न प्रवर्तते केनापि हेतुना, तदपि विसंवादि स्यात् ।
१. कोष्टकगतः पाठो निरर्थको भाति ।