________________
३. ताथागतसंमतस्य प्रमाणलक्षणस्य परीक्षा । २७ " इदानीन्तनमस्तित्वं नहि पूर्वधिया गतम्।"
[श्लोकवा० सूत्र ४, श्लोक २३४ ] इति तद् बालवल्गितम् ।
[ $ ३. प्रत्यभिज्ञानप्रामाण्यखण्डनस्य सूचनम् । ] एतेन प्रत्यभिज्ञानस्यापि प्रामाण्यं प्रत्युक्तं वदितव्यम् ॥छ॥ 5
[३. ताथागतसंमतस्य प्रमाणलक्षणस्य परीक्षा । ] [$१. अनधिगतार्थाधिगन्तृत्वेतिविशेषणस्यापार्थकत्वप्रदर्शनम् । ]
तथा, ताथागतानामपि अनधिगतार्थगन्तृविशेषणमपार्थकम् अपोहयज्ञानाऽसंभवात्। नहि पूर्वापरकालभाविनी विज्ञाने एकविषये स्त: , न स्वलक्षणैकविषये, न सामान्यैकविषये,10 खलक्षणस्य अभिन्नैकस्वभावस्य क्रमवृत्त्यनेकविज्ञानजननशक्तिव्यतिरेकात्।
अथ युगपदेकविषयोत्पन्नाऽनेकविज्ञानापनोदार्थम् । तदप्ययुक्तम् ; एक विषयोत्पन्नानेकपुरुषसंवेदनस्य अप्रामाण्यमापनीपद्येत । अथ सामान्यैकविषयानेकविज्ञानापनोदार्थ विशे-15 षणमुपादीयते; तदप्ययुक्तम् ; न सामान्ये एक विज्ञानमस्ति, नाप्यनेकं विज्ञानं तस्य स्वयमसंभवात् । तदाकारविरहे 'सामान्यविषयं विज्ञानम् इति प्रतिकर्मव्यवस्थाहेतुर्वक्तव्यः । तदाकारे वा सामान्यस्य सदात्मता, अतात्त्विकाकारतादात्म्ये वा ज्ञानातात्त्विकस्वप्रसङ्गः ।
20 किंच, एकविषये प्रवर्त्तमानयोः एकस्याऽप्रामाण्यम् , प्रमापान्तरत्याभावो वा ? तद्यदि अप्रामाण्यम् । तद्युक्तम् । अविशिष्टैकार्थगृहीतिरूपत्वे उभयोः प्रामाण्यमप्रामाण्यं वा विकल्पानुपपत्तेः, विकल्प बाधकविषयोत्पन्नाऽनेकपुरुषविज्ञानभेदप्रसङ्गः । अथाऽप्रमाणान्तरत्वम् । तदप्यनुपपन्नम् : किम् एक-25 विषयोत्पादितानेकप्रत्यक्षादिज्ञानानां व्यक्तिनानात्वं नोपपद्यते, आहो आकारनानात्वम् ? तद्यदि व्यक्तिनानात्वं न जाघ