________________
तत्त्वोपप्लवसिंहे [$ १. गोत्वादिप्रतिपादकत्वेन गोशब्दादीनामप्रामाण्योदाटनम् । ]
एतेन पूर्वोपलब्धगोत्वादिप्रतिपादकत्वेन गोशब्दादेरणामाण्यमुदादितम् । तदेव कथम् ? कथ्यते-किं संकेतग्रहणकालावगतगोत्वार्थवाचकत्वम्, तद्व्यतिरिक्तार्थवाचकत्वं वा प्रति5पाद्यते गोशब्दस्य ? तद्यदि संकेतग्रहणकालाधिकरणांत्वस्वरूपावेदकत्वं जेगीयते गोशब्दस्य; तदा विदितार्थाकारावेदकत्वेन न मानत्वमासादयति गोशब्दः। अथ वेदितार्थाकारावेदकत्वेऽपि प्रामाण्यमावहति; तदा अनधिगतार्थगन्तृविशेषणस्य विषयो वक्तव्यः। अथ तयतिरिक्तार्थवाचकत्वम् ; तदा10नीमसंकेत(ति)त एवार्थः प्रतीयते गोशब्दात् , ततश्च स्वसिहान्तप्रतीतिविरोधो दुर्निवारः । अथ गोत्वमेवाऽवगम्यते गोशब्देन इति चेत् तत्रापि प्रपञ्चितमेव अप्रामाण्यकारण(ण) गृहीतग्राहित्वम् । तदप्रामाण्ये न गोत्वव्यवस्थितिः। तदनवस्थितौ नार्थापत्त्याधिकरणव्यवस्थितिः। 15 [$२. अर्थापत्तेरधिकरणव्यवस्थित्युपपादकत्वस्य निषेधः । ]
इतोऽपि नार्थापत्त्याधिकरणव्यवस्थितिरुपपद्यते-किम् अपत्त्या पूर्वावधारिताधिकरणप्रत्यायनं क्रियते, आहोस्वित् अपूर्वाधिकरणप्रत्यायनम् ? तद्यदि पूर्वावधारिताधिकरणपर्यवसिताऽर्थापत्ति:; तदा प्रतिपादितार्थप्रतिपादकत्वेन न प्रमा20णम् । अथ अदृष्टपिण्डावेदकत्वम् । तदा गोत्वान्यथानुपपत्त्या गजवाजिकल्पनापि कार्या । अथ पूर्वावधारितस्य इदानीन्तनमस्तित्वम् अर्थापत्त्याऽवसीयते इति चेत् तत् इदानीन्तनमस्तित्वं पूर्वावधारिता व्यतिरिक्तम् , अव्यतिरिक्तं वा ? तद्यदि अव्यतिरिक्तम् । तदा पूर्वावधारितार्थप्रतिपादकत्वेन कथम् 25अर्थापत्तेः प्रामाण्यं वेदविदो वदन्ति ? अथ अर्थान्तरम् ; कथं गोत्वान्यथानुपपत्त्या प्रतीयते ? तत्प्रतीत्यभ्युपगमे वा गजवाजिविषयापि प्रतिपत्तिः स्यात् इत्यसकृत् प्रतिपादितम् । एवं च सति यदुक्तम्