________________
२. मीमांसकसमतस्य प्रमाणलक्षणस्य परीक्षा ।
२५
अथ मत्वर्थोऽनुमीयते; स पूर्वावधारितो वा, न वा ? यद्यवधारितः । कथमनधिगतार्थगन्तृविशेषणमनुमाने संभवति ? अथ नैवावगतः तदानीं जलतृणादिविषयमप्यनुमान प्रसज्येत इत्युक्तम् । ___ अथ लिङ्गव्यापारसमानकालीनास्तित्वम् अग्निसामा- 5 न्यस्य अनुमीयते; तदनुमानव्यापारसमानकालीनास्तित्वम् अग्नित्वसामान्याद् व्यतिरिक्तम् , अव्यतिरिक्तं वा ? तद्यदि अव्यतिरिक्तम् । तदानीं पूर्वोपलब्धास्तित्वविषयमेवानुमानम् , कथमनधिगतार्थगन्तृविशेषणमपार्थकं न भवेत् ? अथ व्यतिरिक्तम् । तत्किं पूर्वोपलब्धम्, अनुपलब्धं वा ? यदि पूर्वोपलब्धम् ;10 तद्विषयत्वेऽनुमानस्य नाऽनधिगतार्थगन्तृविशेषणमुपपद्यते । अथ नोपलब्धम् । तत्कथमनुमीयते जलादिकल्पं धूमेन ? ___ अथ लिङ्गोपसर्जनत्वमग्नित्वसामान्यस्य अनुमानात् प्रतीयते; तल्लिङ्गोपसर्जनत्वम् अग्नित्वसामान्याद् भिन्नम् , अभिन्नं वा ? यद्यभिन्नम् ; पूर्वोपलब्धाऽग्नित्वसामान्यविषयमेव15 अनुमानं कथं प्रामाण्यभाग् भवति ? अथ भिन्नम् ; तद् अविनाभाविसम्बन्धग्रहणकाले लिङ्गव्यापकत्वेन अवधारितं वा, न वा ? यद्यवधारितम् : कथमनधिगतार्थविषयमनुमानम् ? अथ लिङ्गव्यापकत्वेनानि]वगतम् तदा तद्विषयत्वेऽनुमानस्य परिकल्प्यमाने त्रिभुवनावेदकत्वं धूमस्य किन्न परिकल्प्यते, सम्ब-20 न्धाभावाऽविशेषात् ?
अथ अग्निव्यक्तिपारतन्त्र्यमनुमीयते धूमेन अग्नित्वसामान्यस्य इति चेत् ; तत्पारतन्त्र्यम् अग्नित्वसामान्यस्य धूमव्यापकत्वेन अवधारितं वा, न वा ? यद्यवधारितम् ; पुनरपि गृहीतग्राहित्वं नातिवर्ततेऽनुमानम् । अथ नावधारितं धूम-25 व्यापकत्वेन पारतन्त्रयम् अग्निसामान्यस्य इति चेत् । कथमनुमीयते इत्युक्तं पुरस्तात् ।