Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 95
________________ ६. सांख्यसंमतस्य प्रत्यक्षलक्षणस्य निरसनम् । स्याताम् । ततश्च - 'इदानीमुपलभे पूर्व नोप(पा)लभे' इति व्यवहारविरहः स्यात् । तथा; 'पूर्वमुप(पा)लभे इदानीं नोपलभे इत्येतदपि न प्राप्नोति । ____ अथ अवयवोपचये सति उपलम्भः; तस्य सर्वदा भावात् सर्वदोपलम्भप्रसङ्गः। अथ स्खलक्षणपुष्टौ सत्यामुपलम्भः; 5 तस्याः सर्वदा सत्त्वात् सततोपलम्भप्रसङ्गः । अथ संस्थानोस्कर्षे सत्युपलम्भः। तस्यापि सर्वदा विद्यमानत्वात् सततोपलब्धिः स्यात् । तस्माद् येन येन निमित्तेन उपलम्भपरिकल्पना, तस्य तस्य सर्वदा भावात् सततोपलम्भप्रसङ्गः । अथ देशकालकारकापबन्धादनुपलम्भः; तदा तस्यापबन्धस्य सर्वदा10 भावाद् अनुपलम्भाऽनुपरमः स्यात् । तथा , इन्द्रियाणामपि करणरूपता नोपलभ्यते फलवैकल्यात्। ननु अस्ति विज्ञानं फलम् ; न , तस्य सर्वदा विद्यमानत्वात् । सर्वदा विद्यमानयोः हेतुफलभावो नोपपद्यते, यथा गुणानां परस्परमात्मभेदानां वा । नहि आत्मा आत्मा-15 न्तरस्य हेतुर्भवति तत्फलं वा, तथा इहापि अनाद्यन्ता सत्ता न कलं हेतुर्वा उच्यते ।। किंच, भूजलादि अनेक कार्यम् - तत्किं गुणत्रयाद् व्यतिरिक्तम्, अव्यतिरिक्तं वा ? तद्यदि व्यतिरिक्तम् ; तत्कि . तात्त्विकम् , अतात्त्विकं वा? तद्यदि तात्त्विकम् ; न तर्हि 20 गुणत्रयोपादानपूर्वकम् , ततो भिन्नत्वाद् आत्मस्वरूपवत् । न च गुणत्रयेण सह अन्यतमोऽपि सम्बन्ध उपपद्यते तद्भिन्नकार्यस्य । न मात्रामात्रिकसम्बन्धः, नापि सहचरसहचरित]भावः, नापि निमित्त-नि(नै)मित्तिकभावः, उपकार्योपकारकभावो वा। __ अथ अतात्त्विकम् ; कथं तेन गुणत्रयं प्रतीयते, गुणत्रयेण25 सह सम्बन्धानुपपत्तेः ? नच सदसतोः सम्बन्ध उपपद्यते आत्मखरविषाणयोरिव । तदभावात् नानुमानाद् गुणत्रयप्रति

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190