Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 68
________________ ३६ तत्वोपप्लवसिंहे तद्यदि प्रतीत्यारूढखलक्षणजन्यता : प्रतीतौ किमवभातिकिमर्थः, ज्ञानम्, उभयं वा ? तद्यदि अर्थः ; तदयुक्तम् ; अप्रतीतायां प्रतीतौ तदनवभासनात् । अथ ज्ञानम् न तर्हि तद् आत्मानमुत्पादयति, स्वात्मनि क्रियाव्यतिरेकात् । अथ उभयं प्रतिभाति तदयुक्तम् एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वात् । यदि चोभयं प्रतिभाति तदा अर्थवत् ज्ञानेनापि ज्ञानमुत्पाद्यते इत्यापद्यते । तच्चायुक्तम्, स्वात्मनि क्रियाविरोधात् । 3 अथ अप्रतीयमानखलक्षणजन्यता ; व (त) गतिः कथम् ? 10न प्रत्यक्षेण; अप्रतीयमानत्वादेव । नाप्यनुमानेन स्वभाव-कार्यलिङ्गानवगतेः । न स्वभावानुमानं तत्कार्यतादात्म्ये, तदनवगतौ तस्याऽनवगतेः । नापि कार्यानुमानम् ; तद्भूत कार्यानुपलब्धेः, पिशाचपरमाणुमहेश्वरकल्पार्थोत्पादितं कार्ये नेहोपलभ्यते । अथ ज्ञानमेव तस्य लिङ्गम् ; तदयुक्तम् ; तेन सह तस्य सम्ब15न्धानवगतेश्चिन्मात्रतयैव न त्वन्योऽर्थः न च चित् आत्मानं जनयति । समनन्तरज्ञानं तस्य हेतुः इति चेत्; तदयुक्तम् ; तदवगतौ न मानमस्ति परसन्तानज्ञानार्थकल्पं तदपि न खसंवेद्यं तत्कार्यज्ञानस्य ततो भिन्नत्वात् परसन्तानज्ञानार्थवत् । नाप्यनुमानेन : तदायत्तताया अनवगतेश्चिन्मात्रतयैव आत्मा20 नमवगाहयति नान्यायत्ततया ततोऽन्यस्य पिशाचेश्वरे (र)तुल्यत्वात् । यदि च समनन्तरविज्ञानोत्पाद्यत्वेन स्पष्टता; तदाऽनुमानज्ञानस्यापि समनन्तरज्ञानोत्पाद्यत्वेन निर्विकल्पकत्वमनुषक्तम् । " अथ स्वलक्षणप्रतिभासिता स्पष्टता ; तत्र किं प्रतिभाति - 25 किम् अर्थः, ज्ञानम्, उभयं वा ? तद्यदि अर्थ: : तदयुक्तम् ; अप्रसिद्धायाः (यां) प्रसिद्धी तत्प्रसिद्ध्यभावात् । अथ ज्ञानम् ; तदनुमानेऽपि प्रतिभाति तदद्भ्यस्तु निर्विकल्पकम् । तन्निर्वि

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190