Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 90
________________ ५८ तत्त्वोपप्लवसिंहे काराननुकारित्वे च ज्ञानाकारताविरहः स्यात् , अनुकरोति च विज्ञानरूपताम् , तेन कथं नानुभवात्मकम् ? तदुपपत्तौ च प्राप्ता अनुभवपरम्परा इत्यतः स्मरणानुपपत्तिः, तदनुपपत्तौ च अनुमानज्ञानस्याप्यनुपपत्तिः, ततश्च सर्वव्यवहारविलोपप्रसङ्गश्च 5एवं (०प्रसङ्गः । एवं च) न सन्तानसिद्धिः, नापि सविकल्पकनिर्विकल्पकज्ञानद्वैराश्यमस्ति , नापि व्यभिचाराव्यभिचार- . दैविध्यमुपपद्यते सौगते मते ॥२॥ [५. मीमांसकाभिमतस्य प्रत्यक्षस्य निरास:।] तथा, “सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् 10प्रत्यक्षम् ” [ जैमि० १.१.४ ]; तदपि प्रत्युक्तम् । कथम् ? एत. त्सूत्रं कदाचित् लक्षणपरम् , कदाचिच्च कारकसंख्याप्रतिपादनपरम्, कदाचिचानुवादपरम् । तद्यदि लक्षणपरम् । तदावबोधस्याव्यभिचारित्वं नावगन्तुं पार्यते - नादुष्टकारणजन्यत्वेन , नापि प्रवृत्तिसामर्थ्येन , नापि बाधारहितत्वेन , नान्यथा वा - 15सर्व पूर्वोदितमनुस्मृत्य वक्तव्यम् । नापि इन्द्रियार्थसम्प्रयोगजत्वं विज्ञानस्यावबोधस्य चार्वाग्भागविदावगम्यते, तदतीन्द्रियत्वेन तदायत्तताऽनधिगतेः । नापि इन्द्रियजन्यत्वमवगन्तुं पार्यते, इन्द्रियाणामतीन्द्रियत्वादेव। अथ अवबोधान्यथानुपपत्त्या सन्निकर्षपरि20कल्पना क्रियते; अवबोधस्य अन्यथानुपपत्तिर्न भवति काऽनुमा ? - . अथ कारकसंख्यार्थम् ; किं तेन परिसंख्यातेन प्रयोजनम् ? आलोकादीनामपि कारकत्वात् तान्यपि परिसंख्येयानि भवन्ति । 25 अथ अनुवादपरता; प्रसिद्धस्यानुवादो नाऽप्रसिद्धस्य । नच अध्यक्षं क्वचिद्विदितम् । ननु लोके विदितम् ; 'न विदि.

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190