Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 59
________________ ३. ताथागतसंमतस्य प्रमाणलक्षणस्य परीक्षा । २७ " इदानीन्तनमस्तित्वं नहि पूर्वधिया गतम्।" [श्लोकवा० सूत्र ४, श्लोक २३४ ] इति तद् बालवल्गितम् । [ $ ३. प्रत्यभिज्ञानप्रामाण्यखण्डनस्य सूचनम् । ] एतेन प्रत्यभिज्ञानस्यापि प्रामाण्यं प्रत्युक्तं वदितव्यम् ॥छ॥ 5 [३. ताथागतसंमतस्य प्रमाणलक्षणस्य परीक्षा । ] [$१. अनधिगतार्थाधिगन्तृत्वेतिविशेषणस्यापार्थकत्वप्रदर्शनम् । ] तथा, ताथागतानामपि अनधिगतार्थगन्तृविशेषणमपार्थकम् अपोहयज्ञानाऽसंभवात्। नहि पूर्वापरकालभाविनी विज्ञाने एकविषये स्त: , न स्वलक्षणैकविषये, न सामान्यैकविषये,10 खलक्षणस्य अभिन्नैकस्वभावस्य क्रमवृत्त्यनेकविज्ञानजननशक्तिव्यतिरेकात्। अथ युगपदेकविषयोत्पन्नाऽनेकविज्ञानापनोदार्थम् । तदप्ययुक्तम् ; एक विषयोत्पन्नानेकपुरुषसंवेदनस्य अप्रामाण्यमापनीपद्येत । अथ सामान्यैकविषयानेकविज्ञानापनोदार्थ विशे-15 षणमुपादीयते; तदप्ययुक्तम् ; न सामान्ये एक विज्ञानमस्ति, नाप्यनेकं विज्ञानं तस्य स्वयमसंभवात् । तदाकारविरहे 'सामान्यविषयं विज्ञानम् इति प्रतिकर्मव्यवस्थाहेतुर्वक्तव्यः । तदाकारे वा सामान्यस्य सदात्मता, अतात्त्विकाकारतादात्म्ये वा ज्ञानातात्त्विकस्वप्रसङ्गः । 20 किंच, एकविषये प्रवर्त्तमानयोः एकस्याऽप्रामाण्यम् , प्रमापान्तरत्याभावो वा ? तद्यदि अप्रामाण्यम् । तद्युक्तम् । अविशिष्टैकार्थगृहीतिरूपत्वे उभयोः प्रामाण्यमप्रामाण्यं वा विकल्पानुपपत्तेः, विकल्प बाधकविषयोत्पन्नाऽनेकपुरुषविज्ञानभेदप्रसङ्गः । अथाऽप्रमाणान्तरत्वम् । तदप्यनुपपन्नम् : किम् एक-25 विषयोत्पादितानेकप्रत्यक्षादिज्ञानानां व्यक्तिनानात्वं नोपपद्यते, आहो आकारनानात्वम् ? तद्यदि व्यक्तिनानात्वं न जाघ

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190