________________
तत्त्वोपप्लवसिंहे दृष्टं येन तद् उपलभ्घमानम् इन्द्रियं गमयति । अथ क्रिया अन्यत्र करणसाध्या दृष्टा । सैव गमिकाऽस्तु यस्या: करणसम्बन्धोऽवगतः । न चान्यस्य सम्बन्धे अन्यस्य गमकत्वं किञ्चित्साम्याद् उपपद्यते । न जातु देवदत्तनयननीलसम्बन्धे सति यज्ञदत्तेन्द्रियं 5घटादिकमर्थम् असति सम्बन्धे करणत्वसाम्यात् प्रकाशयद् दृष्टम् । तथा, अर्थजन्याकारोऽपि विज्ञाने अनेनैव प्रकारेण पर्युदस्तो वेदितव्यः।
[१३. अर्थस्यापि प्रत्यक्षजनकत्वखण्डनम् । ] तथा, अर्थोऽपि विज्ञानमुत्पादयति-अनुपजाताऽतिशयः, उपजातातिशयो वा, अव्यतिरिक्तोपजातातिशयो वा, व्यति10रिक्तोपजातातिशयो वा? तद्यदि अनुपजातातिशयः करोति; तदा सर्वदा कुर्यात् न वा करणम् अकरणं वा नोपवि(प)येत तत्स्वरूपानातिवृत्तः । तथा, अव्यतिरिक्तोपजातातिशयोऽपि न करोति, अकारकाकारस्यानुगतः। अननुगतौ वा न तर्हि तदव्यतिरिक्तोऽतिशयः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते 15तथापि नो[पपद्यते, अकारकाकारानतिवृत्तेः । अतिवृत्ती वा आयातं क्षणिकत्वम् । ततश्च नेन्द्रियार्थसन्निकर्षजं विज्ञानं प्रत्यक्षलक्षणम् ।। छ॥
[२. मीमांसकसंमतस्य प्रमाणलक्षणस्य परीक्षा।] ____ अन्ये तु अनधिगतार्थगन्तृत्वेन प्रमाणलक्षणमभिधति। ते त्वयुक्तवादिनो द्रष्टव्याः । कथमयुक्तवादिता तेषामिति चेत्; 20उच्यते-विभिन्नकारकोत्पादितैकार्थविज्ञानानां यथाव्यवस्थितकार्थगृहीतिरूपत्वाऽविशेषेऽपि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यम् नोत्तरस्य इत्यत्र नियामकं वक्तव्यम् । अथ यथाव्यवस्थितार्थगृहीतिरूपत्वाविशेषेऽपि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यमुपपद्यते न प्रथमोत्तरविज्ञानस्य; तदा अनेनैव न्यायेन प्रथमस्याय25प्रामाण्यं प्रसक्तं गृहीतार्थग्राहित्वाऽविशेषात् । यथा एकनीलस्वलक्षणावभासितयुगपदुत्पन्नानेकनीलविज्ञानानां नीलैकार्थ