________________
२. मीमांसकसंमतस्य प्रमाणलक्षणस्य परीक्षा ।
२३
गृहीतिरूपतान भिद्यते, तथा पूर्वापरात्पन्नविज्ञानानामपि गृही. सार्थगृहीतिरूपता न निवति ।
अथा(थ) नियतविषयत्वं पूर्वोत्तरविज्ञानयोः-पूर्वोत्पन्नविज्ञानम् अनधिगतार्थाकारस्वीकरणमुखेन उपादीयते, उत्तरं तु अधिगतार्थाकारविषयमुपजायते । यदि गृहीतार्थविषयत्वम्: 5 कथं प्रतिनियतविषयत्वम् ? अथ प्रतिनियतविषयत्वम् कथं गृहीतार्थग्राहित्वम् , नियतविषयत्वगृहीतग्राहित्वयोर्विरोधात् ? यदि च नियतविषयत्वम् ; तदा उभयोरपि प्रामाण्यम् अनधिगतार्थगन्तृत्वाऽविशेषात् । अथ एकविषयत्वम् । तदा उभयो। रपि प्रामाण्यमप्रामाण्यं वा गृहीतग्राहित्वाऽविशेषात् । सोऽयं10 गडप्रवेशाक्षितारकविनिर्गमन्यायोपनिपातः श्रुतिलालसानां
दुरुत्तरः।
नन्वधिगतविषयत्वे सत्यपि प्रामाण्याभ्युपगमे स्मृतेरपि प्रामाण्यमनुषज्यते, प्रमाणफलता वा । कोऽत्र निवारयिता? स्मृतिरिहोपजायमाना-आद्यानुभवावेदितार्थाकारविषया वा,15 अन्यविषया वा, निर्विषया वा ? तद्यदि पूर्वोदितानुभवावेदितार्थाकारविषया; तदा तस्याः प्रमाणफलता नैव निवारयितुं पार्यते गृहीतार्थग्राहित्वाविशेषात् इत्युक्तम् । एवं च स्मृतिसञकं सप्तमं प्रमाणं प्रसक्तं मीमांसकानाम् । - अथ पूर्वविज्ञानानवधारितार्थविषया; यद्येवं कथं तस्या:20 प्रमाणफलत्वमपनेतुं पार्यते ? आद्यानुभवस्यै(स्ये)व स्मृतिरूपता च न प्राप्नोति । दृष्टश्रुतार्थविषया हि स्मृति गृहीतार्थविषया।
अथ निर्विषया इष्यते; तदा न गृहीतार्थग्राहित्वेन स्मृतेरप्रामाण्यम् अपि तु केशोण्डुकसंवेदनवनिर्विषयत्वेन । अपि च,25