________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
अथ तद्भवकुम्भादिज्ञानेन अवगम्यते; तयुक्तम् । तदनवगतौ तदुद्भवत्वस्यानवगतः। पिशाचपरमाणुमहेश्वरकल्पोऽसौ सन्निकर्षः । कथं तदायत्तता वेद्यते ज्ञाने? कथं च तद् इन्द्रियार्थसन्निकर्षमावेदयति ज्ञानम्-किं विज्ञानाकारतया, आहो कार्याकारतया, इन्द्रियार्थसन्निकर्षजन्याकारतया वा? 5
तद्यदि ज्ञानस्वभावतया; तयुक्तम् । तदभावेऽपि ज्ञानाकारस्य संभव उपमानादिज्ञाने । अथ कार्यात्मतया गमयति तदप्ययुक्तम् ; उपमानानुमानज्ञान-मरीचिनीलजलादौ तस्य सद्भावोपपत्तेः। यो येन विना भवति स कथं तस्य ज्ञापको नाम? अन्यथा सत्त्वादेरपि गमकत्वं स्यात् ।
____10 __ अथ इन्द्रियार्थसन्निकर्षजन्याकारतया संश(स)चयतीति चेत् : असौ इन्द्रियार्थसन्निकर्षजन्याकारः ज्ञानाकाराव्यतिरिक्तः, व्यतिरिक्तो वा ? यद्यव्यतिरिक्तः । तदा ज्ञानात्मतामात्रम्, नाऽऽकारातिरेकोऽन्योस्ति विभाव्यमानोऽनुमानादिज्ञानेषु यथा। आकारान्तरातिरेके वा ज्ञानरूपता हीयते। अथ15 व्यतिरिक्तः तस्यैव तर्हि गमकत्वं न ज्ञानाकारस्थ । तस्याप्यगमकत्वं तवेदनात् ।
किञ्च, तदुत्पन्नम् इन्द्रियार्थसन्निकर्षाद् विज्ञानं स्वरूपेणावगाहनीयम्, ततो व्याप्तिस्मरणम्, तदनु परामर्शज्ञानम्, ततोऽनुमेयावगतिरिति । न च एतावन्तं कालं विज्ञानं स्थितिपदं20 बध्नाति, आशुभावित्वेन प्रत्यस्तमितत्वात् । अथ बुडयारूढेन धर्मधर्मिन्यायेन परिकल्प्यते अनुमानम् ; तदा अवास्तवं प्राप्नोति सुगतानुमानवत् ॥ छ॥
[६ १२. इन्द्रियजन्यत्वस्य प्रत्यक्षेऽसंभवप्रकटनम् । ] तथा, इन्द्रियोत्पाद्यत्वमपि नोपपद्यते, इन्द्रियोत्पाद्यत्वातिरेकानवगतेः । विज्ञानं स्वभावतयैव वेद्यते, नाकारान्तरेण,25 तज्ज्ञप्ती वा ज्ञानाकारविरहप्रसङ्गः। नच ज्ञानम् इन्द्रियसम्बद्धं
.