________________
२०
तत्त्वोपप्लवसिंहे
सन्देहात्मता । अथ उभावप्यतात्त्विको; तदा तद्विज्ञानस्य विपर्ययरूपता, न सन्देहात्मता । अथ एकस्य तात्त्विकत्वमन्यस्याऽ-' तात्त्विकत्वम् ; तदा तदेव ज्ञानं व्यभिचारि तदेवाऽव्यभिचारिअतात्त्विकार्थगृहीतिरूपत्वाद् व्यभिचारि, तात्त्विकार्थगृहीति5रूपत्वाव्यभिचारि । एतेन द्विचन्द्रज्ञानमुदादितम् । तत्र हि द्रव्याकारः प्रतिभाति न गुणाकारः।
अथ सन्दिग्धार्थाकारप्रतिभासि सन्देहज्ञानमिति चेत् ; स सन्दिग्धोऽर्थो विद्यते वा न वा ? तद्यदि विद्यते; कथं तत्संवेदनस्य सन्देहरूपता अबाधितार्थगृहीतिरूपत्वात् सत्योदक10संवेदनवत् ? अथ न विद्यते; तदाऽव्यभिचारिपदेन अपोदितत्वात् व्यवसायात्मकपदमपार्थकम् ।
अथ न किंचिदपि प्रतिभाति; न तर्हि तस्य इन्द्रियार्थसन्निकर्षजस्विम्], भ्रान्तोदकविज्ञानवत् । तस्माद् व्यवसायात्मकपदमपि अनुपादेयम् ।
[$१०. अव्यपदेश्यपदस्यासाधुत्वे लक्षणसारग्रन्थस्योल्लेखः।] 15 अव्यपदेश्यपदं च यथा न साधीयः तथा लक्षणसारे द्रष्टव्यम् ॥ छ ।
[११. इन्द्रियार्थसन्निकोत्पन्नपदस्य समीक्षा।] तथा, इन्द्रियार्थसन्निकर्षजत्वमपि नोपपद्यते तद्गत्यभावात्। इन्द्रियार्थसन्निकर्षों हि व्यवहितार्थानुपलब्धिलिङ्गो वा, आ[वरणलिङ्गो वा ], तदुत्पादितघटादिज्ञानावसेयो वा ? तद्यदि 20व्यवहितार्थानुपलब्धिलिङ्गः तदयुक्तम्: तेन सह सम्बन्धाऽनुपपत्तेः , तद्भावेप्यनुपलम्भसद्भावदर्शनात् । यदभावेऽपि यस्य सद्भावः स कथं तत्सद्भावावेदकः?
अथ आवरणलिङ्गः तदयुक्तम् । तेन सह संमतिग(संग)तेरभावात् , तद्भावेऽपि सद्भावदर्शनात् , तद्भावे वा आवरणा25नर्थज्य(क्याम् । तद्भावे तद्गतिः कथम् ?