________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । १९ मोषत्वप्रसङ्गः। अथ इन्द्रियासन्निकर्षजत्वं स्मृतिविप्रमोष उच्यते; तदा चोदनाजनितविज्ञानस्य अनुमानोपमानविज्ञानस्य च स्मृतिविप्रमोषत्वमापद्यते । तस्माद् यथा यथा विचार्यते स्मृतिविप्रमोषः तथा तथा न्यायं न विषहत इति । तस्मात् मरीच्युदकविज्ञानस्य न स्मृतिविप्रमोषरूपता अपि तु विपरीत- 5 ख्यातित्वं सम्यग्ज्ञानत्वं वा।
[$९. व्यवसायात्मकपदस्य समालोचनम् । ] तथा, व्यवसायात्मकपदमपि नोपादेयमप्रमे(मपने)याभावात् । ननु स्थाण्वादिकेऽर्थे इन्द्रियार्थसन्निकर्षात् सामान्यमात्रदर्शनात् विशेषानुपलब्धौ सन्देहज्ञानमुपजायते तदपनीयते; तस्मिन् सन्देहज्ञाने जाते किंचित् प्रतिभाति आहो न10 प्रतिभाति ? तद्यदि प्रतिभाति; स किं धर्मी, धर्मो वा ? तद्यदि धर्मी प्रतिभाति; स तात्त्विकः, अतात्त्विको वा? यदि तात्त्विका; नापनेयता तद्विषयविज्ञानस्य। अथ अतात्विकः; तदा अव्यभिचारिपदेन अपनीतत्वात् न व्यवसायात्मकपदमुपादेयम् । ____अथ धर्मः प्रतिभातिः स स्थाणुत्वलक्षणः, पुरुषत्वलक्षणः,15 उभयं वा? तद्यदि स्थाणुत्वलक्षणो धर्मः प्रतिभाति; स तात्त्विकोऽतात्त्विको वा ? यदि तात्त्विकः कथं तद्बुद्धेः सन्देहरूपता, तास्विकार्थगृहीतिरूपत्वेन सत्योदकसंवेदनवत् ? अथ अतात्त्विका तदा अव्यभिचारिपदेन अपोदितत्वात् न व्यवसायात्मकपदमुपादेयम् । अथ पुरुषत्वलक्षणो धर्मः प्रतिभाति; असावपि20 तात्त्विकोऽतात्विको वा ? यदि तात्त्विकः कथं तद्दुहे: सन्देहरूपता ? अथ अतात्त्विकः तदा अव्यभिचारिपदेन अपोदि. तत्वात् व्यवसायोत्मकपदं न साधीयः।
अथ उभयं प्रतिभाति; तदा उभयोस्तात्त्विकत्वम् , अतात्त्विकत्वं वा, अथ एकस्य तात्विकत्वम्, अन्यस्य अतात्त्विकत्वम् ?25 तद्यदि उभयोस्तात्त्विकत्वम् तदा तद्विज्ञानस्य तात्त्विकत्वमेव, न